Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 42

99 Mantra
17/42
Devata- इन्द्रो देवता Rishi- अप्रतिरथ ऋषिः Chhand- विराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मना॑सि। उद् वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑॥४२॥

उत्। ह॒र्ष॒य॒। म॒घ॒व॒न्निति॑ मघऽवन्। आयु॑धानि। उत्। सत्व॑नाम्। मा॒म॒काना॑म्। मना॑सि। उत्। वृ॒त्र॒ह॒न्निति॑ वृत्रऽहन्। वा॒जिना॑म्। वाजि॑नानि। उत्। रथा॑नाम्। जय॑ताम्। य॒न्तु॒। घोषाः॑ ॥४२ ॥

Mantra without Swara
उद्धर्षय मघवन्नायुधान्युत्सत्वनाम्मामकानां मनाँसि । उद्वृत्रहन्वाजिनाँवाजिनान्युद्रथानाञ्जयताँयन्तव घोषाः ॥

उत्। हर्षय। मघवन्निति मघऽवन्। आयुधानि। उत्। सत्वनाम्। मामकानाम्। मनासि। उत्। वृत्रहन्निति वृत्रऽहन्। वाजिनाम्। वाजिनानि। उत्। रथानाम्। जयताम्। यन्तु। घोषाः॥४२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्) (हर्षय) उत्कर्षय (मघवन्) प्रशस्तानि मघानि धनानि विद्यन्ते यस्य तत्सम्बुद्धौ (आयुधानि) समन्ताद् युध्यन्ते यैस्तानि (उत्) (सत्वनाम्) सेनायां सीदतां प्राणिनाम् (मामकानाम्) मदीयानां वीराणाम् (मनांसि) अन्तःकरणानि (उत्) (वृत्रहन्) मेघहन्ता सूर्य इव शत्रुहन्तः सेनापते (वाजिनाम्) तुरङ्गाणाम् (वाजिनानि) शीघ्रगमनानि (उत्) (रथानाम्) (जयताम्) (यन्तु) गच्छन्तु (घोषाः) शब्दाः॥४२॥
Essence
सेनापतिभिः शिक्षकैश्च योद्धॄणां चित्तानि नित्यं हर्षणीयानि। सेनाङ्गानानि सम्यगुन्नीय शत्रवो जेतव्याश्च॥४२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
सेनास्था जनाः स्वाधीशमेवं ब्रुयुः—हे वृत्रहन्! मघवँस्त्वं मामकानां सत्वनामायुधान्युद्धर्षय। मामकानां सत्वनां मनांस्युद्धर्षय। मामकानां वाजिनां वाजिनान्युद्धर्षय भवत्कृपातो मामकानां जयतां रथानां घोषा उद्यन्तु॥४२॥