Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 39

99 Mantra
17/39
Devata- इन्द्रो देवता Rishi- अप्रतिरथ ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑। दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्योऽअ॒स्माक॒ꣳ सेना॑ अवतु॒ प्र यु॒त्सु॥३९॥

अ॒भि। गो॒त्राणि॑। सह॑सा। गाह॑मानः। अ॒द॒यः। वी॒रः। श॒तम॑न्यु॒रिति॑ श॒तऽम॑न्युः। इन्द्रः॑। दु॒श्च्य॒व॒न इति॑ दुःऽच्यव॒नः। पृ॒त॒ना॒ऽषाट्। अ॒यु॒ध्यः᳕। अ॒स्माक॑म्। सेनाः॑। अ॒व॒तु॒। प्र। यु॒त्स्विति॑ यु॒त्सु ॥३९ ॥

Mantra without Swara
अभि गोत्राणि सहसा गाहमानो दयो वीरः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयुध्यो स्माकँ सेना अवतु प्र युत्सु ॥

अभि। गोत्राणि। सहसा। गाहमानः। अदयः। वीरः। शतमन्युरिति शतऽमन्युः। इन्द्रः। दुश्च्यवन इति दुःऽच्यवनः। पृतनाऽषाट्। अयुध्यः। अस्माकम्। सेनाः। अवतु। प्र। युत्स्विति युत्सु॥३९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अभि) सर्वतः (गोत्राणि) शत्रुकुलानि (सहसा) बलेन (गाहमानः) विलोडनं कुर्वन् (अदयः) अविद्यमाना दया करुणा यस्य सः (वीरः) शत्रूणां दरिता (शतमन्युः) शतधा मन्युः क्रोधो यस्य सः (इन्द्रः) सेनेशः (दुश्च्यवनः) शत्रुभिर्दुःखेन च्योतुं योग्यः (पृतनाषाट्) यः पृतनां सहते (अयुध्यः) शत्रुभिर्योद्धुमयोग्यः (अस्माकम्) (सेनाः) (अवतु) रक्षतु (प्र) प्रयत्नेन (युत्सु) मिश्रितामिश्रतकरणेषु युद्धेषु॥३९॥
Essence
धार्मिकेषु करुणाकरः दुष्टेषु निर्दयः सर्वाभिरक्षको नरो भवेत्, स एव सेनापालनेऽधिकर्त्तव्यः॥३९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वांसः! यो युत्सु सहसा गोत्राणि प्रगाहमानोऽदयः शतमन्युर्दुश्च्यवनः पृतनाषाडयुध्यो वीरोऽस्माकं सेना अभ्यवतु, स इन्द्रः सेनापतिर्भवत्वित्याज्ञापयत॥३९॥