Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 37

99 Mantra
17/37
Devata- इन्द्रो देवता Rishi- अप्रतिरथ ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मानऽउ॒ग्रः। अ॒भिवी॑रोऽअ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित्॥३७॥

ब॒ल॒वि॒ज्ञा॒य इति॑ बलऽविज्ञा॒यः। स्थवि॑रः। प्रवी॑र॒ इति॒ प्रऽवी॑रः। सह॑स्वान्। वा॒जी। सह॑मानः। उ॒ग्रः। अ॒भिवी॑र॒ इत्य॒भिऽवी॑रः। अ॒भिस॒त्वेत्य॒भिऽस॑त्वा। स॒हो॒जा इति॑ सहः॒ऽजाः। जैत्र॑म्। इ॒न्द्र॒। रथ॑म्। आ। ति॒ष्ठ॒। गो॒विदिति॑ गो॒ऽवित् ॥३७ ॥

Mantra without Swara
बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमानऽउग्रः । अभिवीरोऽअभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥

बलविज्ञाय इति बलऽविज्ञायः। स्थविरः। प्रवीर इति प्रऽवीरः। सहस्वान्। वाजी। सहमानः। उग्रः। अभिवीर इत्यभिऽवीरः। अभिसत्वेत्यभिऽसत्वा। सहोजा इति सहःऽजाः। जैत्रम्। इन्द्र। रथम्। आ। तिष्ठ। गोविदिति गोऽवित्॥३७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(बलविज्ञायः) यो बलं बलयुक्तं सैन्यं कर्तुं जानाति सः (स्थविरः) वृद्धो विज्ञातराजधर्मव्यवहारः (प्रवीरः) प्रकृष्टश्चासौ वीरश्च (सहस्वान्) सहो बहुबलं विद्यते यस्य सः (वाजी) प्रशस्तो वाजः शास्त्रबोधो विद्यते यस्य सः (सहमानः) यः सुखदुःखादिकं सहते (उग्रः) दुष्टानां वधे तीव्रतेजाः (अभिवीरः) अभीष्टा वीरा यस्य सः (अभिसत्वा) अभितः सर्वतः सत्वानो युद्धविद्वांसो रक्षका भृत्या वा यस्य सः (सहोजाः) सहसा बलेन जातः प्रसिद्धः (जैत्रम्) जेतृभिः परिवृतं रथम् (इन्द्र) युद्धस्य परमसामग्रीसहित (रथम्) रमणीयं भूसमुद्राकाशयानम् (आ) (तिष्ठ) (गोवित्) यो गा वाचो धेनुः पृथिवीं वा विन्दति सः॥३७॥
Essence
सेनापतिः सेनावीरा वा यदा शत्रुभिः योद्धुमिच्छेयुस्तदा परस्परं सर्वतो रक्षां रक्षासाधनानि वा संगृह्य बुद्ध्युत्साहेन सह वर्त्तमाना अनलसाः सन्तः शत्रुविजयतत्परा भवेयुः॥३७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे इन्द्र सेनापते! बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रोऽभिवीरोऽभिसत्वा सहोजा गोवित् संस्त्वं युद्धाय जैत्रं रथमातिष्ठ॥३७॥