Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 36

99 Mantra
17/36
Devata- इन्द्रो देवता Rishi- अप्रतिरथ ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑२ऽ अप॒बाध॑मानः। प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेद्ध्यवि॒ता र॒था॑नाम्॥३६॥

बृह॑स्पते। परि॑। दी॒य॒। रथे॑न। र॒क्षा॒हेति॑ रक्षः॒ऽहा। अ॒मित्रा॑न्। अ॒प॒बाध॑मान॒ इत्य॑प॒ऽबाध॑मानः। प्र॒भ॒ञ्जन्निति॑ प्रऽभ॒ञ्जन्। सेनाः॑। प्र॒मृ॒ण इति॑ प्रऽमृ॒णः। यु॒धा। जय॑न्। अ॒स्माक॑म्। ए॒धि। अ॒विता। रथा॑नाम् ॥३६ ॥

Mantra without Swara
बृहस्पते परिदीया रथेन रक्षोहामित्रानपबाधमानः । प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥

बृहस्पते। परि। दीय। रथेन। रक्षाहेति रक्षःऽहा। अमित्रान्। अपबाधमान इत्यपऽबाधमानः। प्रभञ्जन्निति प्रऽभञ्जन्। सेनाः। प्रमृण इति प्रऽमृणः। युधा। जयन्। अस्माकम्। एधि। अविता। रथानाम्॥३६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(बृहस्पते) बृहतां धार्मिकाणां वृद्धानां सेनानां वा पतिस्तत्संबुद्धौ (परि) सर्वतः (दीया) क्षिणुमहि। अत्र द्व्यचोऽस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः। अत्र व्यत्ययेनात्मनेपदम् (रथेन) रमणीयेन यानसमूहेन (रक्षोहा) यो रक्षांसि दुष्टान् हन्ति सः (अमित्रान्) न विद्यन्ते मित्राण्येषां तान् (अपबाधमानः) अपबाधते सः (प्रभञ्जन्) यः प्रभग्नान् करोति सः (सेनाः) (प्रमृणः) ये प्रकृष्टतया मृणन्ति हिंसन्ति तान् (युधा) युद्धे (जयन्) उत्कर्षं प्राप्नुवन् (अस्माकम्) (एधि) भव (अविता) रक्षिता (रथानाम्) रमणीयानां यानानाम्॥३६॥
Essence
राजा सेनापतिं स्वसेनां च वर्द्धयन् शत्रुसेनां हिंसन् धार्मिकीं प्रजां सततमुन्नयेत्॥३६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे बृहस्पते! यो रक्षोहाऽमित्रानपबाधमानः प्रमृणः सेनाः प्रभञ्जँस्त्वं रथेन युधा शत्रून् परिदीया, स जयन्नस्माकं रथानामवितैधि॥३६॥