Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 35

99 Mantra
17/35
Devata- इन्द्रो देवता Rishi- अप्रतिरथ ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सऽइषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सꣳस्र॑ष्टा॒ स युध॒ऽइन्द्रो॑ ग॒णेन॑। स॒ꣳसृ॒ष्ट॒जित् सो॑म॒पा बा॑हुश॒र्ध्युग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑॥३५॥

सः। इषु॑हस्तै॒रितीषु॑ऽहस्तैः। सः। नि॒ष॒ङ्गिभि॒रिति॑ निष॒ङ्गिऽभिः॑। व॒शी। सस्र॒ष्टेति॒ सम्ऽस्र॑ष्टा। सः। युधः॑। इन्द्रः॑। ग॒णेन॑। स॒ꣳसृ॒ष्ट॒जिदिति॑ सꣳसृष्ट॒ऽजित्। सो॒म॒पा इति॑ सोम॒ऽपाः। बा॒हु॒श॒र्द्धीति॑ बाहुऽशर्द्धी। उ॒ग्रध॒न्वेत्यु॒ग्रऽध॑न्वा। प्रति॑हिताभि॒रिति॒ प्रति॑ऽहिताभिः। अस्ता॑ ॥३५ ॥

Mantra without Swara
सऽइषुहस्तैः स निषङ्गिभिर्वशी सँस्रष्टा स युधऽइन्द्रो गणेन । सँसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥

सः। इषुहस्तैरितीषुऽहस्तैः। सः। निषङ्गिभिरिति निषङ्गिऽभिः। वशी। सस्रष्टेति सम्ऽस्रष्टा। सः। युधः। इन्द्रः। गणेन। सꣳसृष्टजिदिति सꣳसृष्टऽजित्। सोमपा इति सोमऽपाः। बाहुशर्द्धीति बाहुऽशर्द्धी। उग्रधन्वेत्युग्रऽधन्वा। प्रतिहिताभिरिति प्रतिऽहिताभिः। अस्ता॥३५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सः) सेनापतिः (इषुहस्तैः) शस्त्रपाणिभिः सुशिक्षितैर्बलिष्ठैर्भृत्यैः (सः) (निषङ्गिभिः) निषङ्गाणि भुशुण्डीशतघ्न्याग्न्येयास्त्रादीनि बहूनि विद्यन्ते येषां तैः (वशी) जितेन्द्रियान्तःकरणः (संस्रष्टा) श्रेष्ठानां मनुष्याणां शस्त्रास्त्राणां वा संसर्गस्य कर्त्ता (सः) (युधः) यो युध्यते सः (इन्द्रः) शत्रूणां दारयिता (गणेन) सुशिक्षितभृत्यसमूहेन सैन्येन वा (संसृष्टजित्) यः संसृष्टान् मिलिताञ्छत्रूञ्जयति सः (सोमपाः) यः सोममोषधिरसं पिबति सः (बाहुशर्द्धी) बाह्वोः शर्द्धो बलं यस्य सः (उग्रधन्वा) उग्रं धनुर्यस्य सः (प्रतिहिताभिः) प्रत्यक्षेण धृताभिः (अस्ता) शस्त्रास्त्राणां प्रक्षेप्ता॥३५॥
Essence
सर्वेशो राजा सर्वसेनाधिपतिर्वा सुशिक्षितवीरभृत्यसेनया सह वर्त्तमानो दुर्जयानपि शत्रूञ्जेतुं यथा शक्नुयात्, तथा सर्वैविधेयमिति॥३५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
स सेनापतिरिषुहस्तैर्निषङ्गिभिः सह वर्त्तमानः स संस्रष्टा वशी संसृष्टजित् सोमपा बाहुशर्द्ध्युग्रधन्वा स युधोऽस्तेन्द्रो गणेन प्रतिहिताभिश्च सह वर्त्तमानः सन् शत्रूञ्जयतु॥३५॥