Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 34

99 Mantra
17/34
Devata- इन्द्रो देवता Rishi- अप्रतिरथ ऋषिः Chhand- स्वराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन धृ॒ष्णुना॑। तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑॥३४॥

सं॒क्रन्द॑ने॒नेति॑ स॒म्ऽक्रन्द॑नेन। अ॒निमि॒षेणेत्य॑निऽमि॒षेण॑। जि॒ष्णुना॑। यु॒त्का॒रेणेति॑ युत्ऽका॒रेण॑। दु॒श्च्य॒व॒नेनेति॑ दुःऽच्यव॒नेन॑। धृ॒ष्णुना॑। तत्। इन्द्रे॑ण। ज॒य॒त॒। तत्। स॒ह॒ध्व॒म्। युधः॑। नरः॑। इषु॑हस्ते॒नेतीषु॑ऽहस्तेन। वृष्णा॑ ॥३४ ॥

Mantra without Swara
सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वँयुधो नरऽइषुहस्तेन वृष्णा ॥

संक्रन्दनेनेति सम्ऽक्रन्दनेन। अनिमिषेणेत्यनिऽमिषेण। जिष्णुना। युत्कारेणेति युत्ऽकारेण। दुश्च्यवनेनेति दुःऽच्यवनेन। धृष्णुना। तत्। इन्द्रेण। जयत। तत्। सहध्वम्। युधः। नरः। इषुहस्तेनेतीषुऽहस्तेन। वृष्णा॥३४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(संक्रन्दनेन) सम्यग् दुष्टानां रोदयित्रा (अनिमिषेण) निरन्तरं प्रयतमानेन (जिष्णुना) जयशीलेन (युत्कारेण) यो व्यूहैर्युतो मिश्रितानमिश्रितान् भृत्यान् करोति तेन (दुश्च्यवनेन) यः शत्रुभिर्दुःखेन कृच्छेण च्यवते तेन (धृष्णुना) दृढोत्साहेन (तत्) तेन पूर्वोक्तेन (इन्द्रेण) परमैश्वर्य्यकारकेण (जयत) (तत्) शत्रुसैन्यं युद्धजन्यं दुःखं वा (सहध्वम्) (युधः) ये युध्यन्ते ते (नरः) नायकाः (इषुहस्तेन) इषवः शस्त्राणि हस्तयोर्यस्य तेन (वृष्णा) वीर्यवता॥३४॥
Essence
हे मनुष्याः! यूयं युद्धविद्याकुशलं सर्वशुभलक्षणान्वितं बलपराक्रमाढ्यं जनं सेनाधिष्ठातारं कृत्वा तेन सहाधार्मिकान् शत्रून् जित्वा निष्कण्टकं चक्रवर्त्तिराज्यं संभुङ्ग्ध्वम्॥३४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे युधो नरः! यूयमनिमिषेण दुश्च्यवनेन धृष्णुना युत्कारेण वृष्णेषुहस्तेन संक्रन्दनेन जिष्णुना तत्तेनेन्द्रेण सह वर्त्तमानाः सन्तः शत्रून् जयत, तच्छत्रुसैन्यवेगं सहध्वम्॥३४॥