Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 33

99 Mantra
17/33
Devata- इन्द्रो देवता Rishi- अप्रतिरथ ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम्। सं॒क्रन्द॑नोऽनिमि॒षऽए॑कवी॒रः श॒तꣳ सेना॑ऽअजयत् सा॒कमिन्द्रः॑॥३३॥

आ॒शुः। शिशा॑नः। वृ॒ष॒भः। न। भी॒मः। घ॒ना॒घ॒नः। क्षोभ॑णः। च॒र्ष॒णी॒नाम्। सं॒क्रन्द॑न॒ इति॑ स॒म्ऽक्रन्द॑नः। अ॒नि॒मि॒ष इत्य॑निऽमिषः। ए॒क॒वी॒र इत्ये॑कऽवी॒रः। श॒तम्। सेनाः॑। अ॒ज॒य॒त्। सा॒कम्। इन्द्रः॑ ॥३३ ॥

Mantra without Swara
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । सङ्क्रन्दनो निमिषऽएकवीरः शतँ सेनाऽअजयत्साकमिन्द्रः ॥

आशुः। शिशानः। वृषभः। न। भीमः। घनाघनः। क्षोभणः। चर्षणीनाम्। संक्रन्दन इति सम्ऽक्रन्दनः। अनिमिष इत्यनिऽमिषः। एकवीर इत्येकऽवीरः। शतम्। सेनाः। अजयत्। साकम्। इन्द्रः॥३३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आशुः) शीघ्रकारी (शिशानः) तनूकर्त्ता (वृषभः) बलीवर्दः (न) इव (भीमः) भयंकरः (घनाघनः) अतिशयेन शत्रून् घातुकः। हन्तेर्घत्वं चेति वार्त्तिकेनाचि प्रत्यये घत्वमभ्यासस्यागागमश्च (क्षोभणः) क्षोभकर्त्ता संचालयिता (चर्षणीनाम्) मनुष्याणां तत्सम्बन्धिसेनानां वा। चर्षणय इति मनुष्यनामसु पठितम्॥ (निघं॰२.३) (संक्रन्दनः) सम्यक् शत्रूणां रोदयिता (अनिमिषः) अहर्निशं प्रयतमानः (एकवीरः) एकश्चासौ वीरश्च (शतम्) असंख्याः (सेनाः) सिन्वन्ति बध्नन्ति शत्रून् याभिस्ताः (अजयत्) जयति (साकम्) सार्द्धम् (इन्द्रः) शत्रूणां विदारयिता सेनेशः॥३३॥
Essence
मनुष्यैर्या धनुर्वेदविदृगादिविन्निर्भयस्सर्वविद्यो बलिष्ठो धार्म्मिकः स्वराज्यानुरागी जितेन्द्रियोऽरीणां विजेता स्वसेनायाः शिक्षणे योधने च कुशलो वीरो भवेत्, स सेनाधीशाधिकारे स्थापनीयः॥३३॥
Subject
अथ सेनापतिकृत्यमुपदिश्यते॥
Anvaya
हे विद्वांसो मनुष्या! यूयं यश्चर्षणीनामाशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणः संक्रन्दनोऽनिमिष एकवीर इन्द्रोऽस्माभिः साकं शतं सेना अजयत्, तमेव सेनाधीशं कुरुत॥३३॥