Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 32

99 Mantra
17/32
Devata- विश्वकर्मा देवता Rishi- भुवनपुत्रो विश्वकर्मा ऋषिः Chhand- स्वराडार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒वऽआदिद् ग॑न्ध॒र्वोऽअ॑भवद् द्वि॒तीयः॑। तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्यदधात् पुरु॒त्रा॥३२॥

वि॒श्वऽक॑र्मा। हि। अज॑निष्ट। दे॒वः। आत्। इत्। ग॒न्ध॒र्वः। अ॒भ॒व॒त्। द्वि॒तीयः॑। तृ॒तीयः॑। पि॒ताः। ज॒नि॒ता। ओष॑धीनाम्। अ॒पाम्। गर्भ॑म्। वि। अ॒द॒धा॒त्। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा ॥३२ ॥

Mantra without Swara
विश्वकर्मा ह्यजनिष्ट देवऽआदिद्गन्धर्वोऽअभवद्द्वितीयः । तृतीयः पिता जनितौषधीनामपाङ्गर्भम्व्यदधात्पुरुत्रा ॥

विश्वऽकर्मा। हि। अजनिष्ट। देवः। आत्। इत्। गन्धर्वः। अभवत्। द्वितीयः। तृतीयः। पिताः। जनिता। ओषधीनाम्। अपाम्। गर्भम्। वि। अदधात्। पुरुत्रेति पुरुऽत्रा॥३२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विश्वकर्मा) विश्वानि सर्वाणि शुभानि कर्माणि यस्य सः (हि) खलु (अजनिष्ट) जनितवान् (देवः) दिव्यस्वरूपः (आत्) (इत्) (गन्धर्वः) गां पृथिवीं धरति स सूर्यः सूत्रात्मा वायुर्वा (अभवत्) भवति (द्वितीयः) द्वयोः संख्यापूरको धनञ्जयः (तृतीयः) त्रयाणां संख्यापूरक प्राणादिस्वरूपः (पिता) पालकः (जनिता) प्रसिद्धिकर्त्ताऽपां धर्त्ता पर्जन्यः (ओषधीनाम्) यवादीनाम् (अपाम्) जलानां प्राणानां वा (गर्भम्) धारणम् (वि) (अदधात्) दधाति (पुरुत्रा) यः पुरून् बहून् त्रायते सः॥३२॥
Essence
सर्वैमनुष्यैरिह सकलकर्मसेवका जीवाः प्रथमा विद्युदग्निसूर्यवायवः पृथिव्यादिधारका द्वितीयास्तृतीयाः पर्जन्यादयस्तेषां जीवा अजा अन्ये सर्वे जातास्तेऽपि कारणरूपेण नित्याश्चेति वेद्यम्॥३२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! अत्र जगति विश्वकर्मा देवो वायुरादिम इदभवदादनन्तरं गन्धर्वोऽजनिष्टौषधीनामपां पिता हि द्वितीयो यो गर्भं व्यदधात्, स पुरुत्रा जनिता पर्जन्यः तृतीयोऽभवदिति भवन्तो विदन्तु॥३२॥