Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 30

99 Mantra
17/30
Devata- विश्वकर्मा देवता Rishi- भुवनपुत्रो विश्वकर्मा ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
तमिद् गर्भं॑ प्रथ॒मं द॑ध्र॒ऽआपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑। अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः॥३०॥

तम्। इत्। गर्भ॑म्। प्र॒थ॒मम्। द॒ध्रे॒। आपः॑। यत्र॑। दे॒वाः। स॒मग॑च्छ॒न्तेति॑ सम्ऽअग॑च्छन्त। विश्वे॑। अ॒जस्य॑। नाभौ॑। अधि॑। एक॑म्। अर्पि॑तम्। यस्मि॑न्। विश्वा॑नि। भुव॑नानि। त॒स्थुः ॥३० ॥

Mantra without Swara
तमिद्गर्भम्प्रथमन्दध्रऽआपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभावध्येकमर्पितँयस्मिन्विश्वानि भुवनानि तस्थुः ॥

तम्। इत्। गर्भम्। प्रथमम्। दध्रे। आपः। यत्र। देवाः। समगच्छन्तेति सम्ऽअगच्छन्त। विश्वे। अजस्य। नाभौ। अधि। एकम्। अर्पितम्। यस्मिन्। विश्वानि। भुवनानि। तस्थुः॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तम्) (इत्) एव (गर्भम्) सर्वलोकानामुत्पत्तिस्थानं प्रकृत्याख्यम् (प्रथमम्) विस्तृतमन्नादि (दध्रे) दधिरे (आपः) कारणाख्याः प्राणा जीवा वा (यत्र) यस्मिन् ब्रह्मणि (देवाः) दिव्यात्मान्तःकरणा योगविदः (समगच्छन्त) सम्यक् प्राप्नुवन्ति (विश्वे) सर्वे (अजस्य) अनुत्पन्नस्यानादेर्जीवस्याव्यक्तस्य च (नाभौ) मध्ये (अधि) अधिष्ठातृत्वेन सर्वोपरि विराजमानम् (एकम्) स्वयं सिद्धम् (अर्पितम्) प्रार्पितं स्थितम् (यस्मिन्) (विश्वानि) अखिलानि (भुवनानि) लोकजातान्यधिकरणानि (तस्थुः) तिष्ठन्ति॥३०॥
Essence
मनुष्यैर्यो जगत् आधारो योगिभिर्गम्योऽन्तर्यामी स्वयं स्वाधारः सर्वत्र व्याप्तोऽस्ति, स एव सर्वैः सेवनीयः॥३०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यत्रापः प्रथमं गर्भं दध्रे, यस्मिन् विश्वे देवाः समगच्छन्त, यदजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुस्तमिदेव परमात्मानं यूयं बुध्यध्वम्॥३०॥