Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 3

99 Mantra
17/3
Devata- अग्निर्देवता Rishi- मेधातिथिर्ऋषिः Chhand- विराडार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ऋ॒तव॑ स्थऽऋता॒वृध॑ऽऋतु॒ष्ठा स्थ॑ऽऋता॒वृधः॑। घृ॒त॒श्च्युतो॑ मधु॒श्च्युतो॑ वि॒राजो॒ नाम॑ काम॒दुघा॒ऽअक्षी॑यमाणाः॥३॥

ऋ॒तवः॑। स्थ॒। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। ऋ॒तु॒ष्ठाः। ऋ॒तु॒स्था इत्यृ॑तु॒ऽस्थाः। स्थ॒। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। घृ॒त॒श्च्युत॒ इति॑ घृत॒ऽश्च्युतः॑। म॒धु॒श्च्युत॒ इति॑ मधु॒ऽश्च्युतः॑। वि॒राज॒ इति॑ वि॒ऽराजः॑। नाम॑। का॒म॒दुघा॒ इति॑ काम॒दुघा॑। अक्षी॑यमाणाः ॥३ ॥

Mantra without Swara
ऋतव स्थऽऋतावृधऽऋतुष्ठा स्थ ऋतावृधः । घृतश्च्युतो मधुश्च्युतो विराजो नाम कामदुघाऽअक्षीयमाणाः ॥

ऋतवः। स्थ। ऋतावृधः। ऋतवृध इत्यृतऽवृधः। ऋतुष्ठाः। ऋतुस्था इत्यृतुऽस्थाः। स्थ। ऋतावृधः। ऋतवृध इत्यृतऽवृधः। घृतश्च्युत इति घृतऽश्च्युतः। मधुश्च्युत इति मधुऽश्च्युतः। विराज इति विऽराजः। नाम। कामदुघा इति कामदुघा। अक्षीयमाणाः॥३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ऋतवः) यथा वसन्तादयस्तथा (स्थ) भवत (ऋतावृधः) या ऋतेन जलेन नद्य इव सत्येन वर्द्धन्ते ताः। अत्र अन्येषामपि दृश्यते [अष्टा॰६.३.१३७] इति दीर्घः (ऋतुष्ठाः) या ऋतुषु वसन्तादिषु तिष्ठन्ति ताः (स्थ) भवत (ऋतावृधः) या ऋतं सत्यं वर्धयन्ति ताः (घृतश्च्युतः) घृतमाज्यं श्च्युतं निस्सृतं याभ्यस्ताः (मधुश्च्युतः) या मधुनो मधुरात् रसात् प्राप्ताः (विराजः) विविधैर्गुणै राजमानाः प्रकाशमानाः (नाम) प्रसिद्धाः (कामदुघाः) याः कामान् दुहन्ति प्रपिपुरति ताः (अक्षीयमाणाः) क्षेतुमनर्हाः॥३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा ऋतवो गावश्च स्वस्वसमयानुकूलतया सर्वान् प्राणिनः सुखयन्ति, तथैव सत्यस्त्रियः प्रतिसमयं स्वपत्यादीन् सर्वान् संतर्प्यानन्दयन्तु॥३॥
Subject
स्त्रियः पत्यादिभिः सह कथं वर्त्तेरन्नित्याह॥
Anvaya
हे स्त्रियः! या यूयं ऋतवः स्थ, या ऋतावृध ऋतुष्ठा ऋतावृधः स्थ, याश्च यूयं घृतश्च्युतो मधुश्च्युतोऽक्षीयमाणा विराजः कामदुघा नाम धेनव इव स्थ, ता अस्मान् सुखयत॥३॥