Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 28

99 Mantra
17/28
Devata- विश्वकर्मा देवता Rishi- भुवनपुत्रो विश्वकर्मा ऋषिः Chhand- भुरिगार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
तऽआय॑जन्त॒ द्रवि॑ण॒ꣳ सम॑स्मा॒ऽऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना। अ॒सूर्त्ते॒ सूर्त्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॒॑ण्वन्नि॒मानि॑॥२८॥

ते। आ। अ॒य॒ज॒न्त॒। द्रवि॑णम्। सम्। अ॒स्मै॒। ऋष॑यः। पूर्वे॑। ज॒रि॒तारः॑। न। भू॒ना। अ॒सूर्त्ते॑। सूर्त्ते॑। रज॑सि। नि॒ष॒त्ते। नि॒स॒त्त इति॑ निऽस॒त्ते। ये। भू॒तानि॑। स॒मकृ॑ण्व॒न्निति॑ स॒म्ऽअकृ॑ण्वन्। इमानि॑ ॥२८ ॥

Mantra without Swara
तऽआयजन्त द्रविणँ समस्माऽऋषयः पूर्वे जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि् ॥

ते। आ। अयजन्त। द्रविणम्। सम्। अस्मै। ऋषयः। पूर्वे। जरितारः। न। भूना। असूर्त्ते। सूर्त्ते। रजसि। निषत्ते। निसत्त इति निऽसत्ते। ये। भूतानि। समकृण्वन्निति सम्ऽअकृण्वन्। इमानि॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ते) (आ) (अयजन्त) संगच्छेरन् (द्रविणम्) श्रियम् (सम्) (अस्मै) अस्येश्वरस्याज्ञापालनाय (ऋषयः) वेदवेत्तारः (पूर्वे) पूर्णविद्यया सर्वस्य पोषकाः (जरितारः) स्तावकाः (न) इव (भूना) भूमना। अत्र पृषोदरादित्वान्मकारलोपः (असूर्त्ते) अप्राप्ते परोक्षे। अत्र सृधातोः क्तान्तं निपातनम्। नसत्तनिषत्त॰ [अष्टा॰८.२.६१] इत्यनेन निपात्यते॥ (सूर्त्ते) प्राप्ते प्रत्यक्षे (रजसि) लोके (निषत्ते) स्थिते स्थापिते वा (ये) (भूतानि) (समकृण्वन्) सम्यक् शिक्षितान् कुर्युः (इमानि) प्रत्यक्षविषयाणि॥२८॥
Essence
अत्रोपमालङ्कारः। यथा विद्वांसोऽत्र जगति परेशाज्ञापालनाय सृष्ट्यनुक्रमेण तत्त्वं जानन्ति, तथैवान्य आचरन्तु। यथा धार्मिका धनमुपार्जन्ति, तथैव सर्व उपार्जन्तु॥२८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
ये पूर्वे जरितारो न ऋषयो भूनाऽसूर्त्ते सूर्त्ते निषत्ते रजसीमानि भूतानि साक्षात् समकृण्वन्, तेऽस्मै द्रविणं समायजन्त॥२८॥