Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 27

99 Mantra
17/27
Devata- विश्वकर्मा देवता Rishi- भुवनपुत्रो विश्वकर्मा ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑। यो दे॒वानां॑ नाम॒धाऽएक॑ऽए॒व तꣳ स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या॥२७॥

यः। नः॒। पि॒ता। ज॒नि॒ता। यः। वि॒धा॒तेति॑ विऽधा॒ता। धामा॑नि। वेद॑। भुव॑नानि। विश्वा॑। यः। दे॒वाना॑म्। ना॒म॒धा इति॑ नाम॒ऽधाः। एकः॑। ए॒व। तम्। स॒म्प्र॒श्नमिति॑ सम्ऽप्र॒श्नम्। भुव॑ना। य॒न्ति॒। अ॒न्या ॥२७ ॥

Mantra without Swara
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानान्नामधाऽएक एव तँ सम्प्रश्नम्भुवना यन्त्यन्या ॥

यः। नः। पिता। जनिता। यः। विधातेति विऽधाता। धामानि। वेद। भुवनानि। विश्वा। यः। देवानाम्। नामधा इति नामऽधाः। एकः। एव। तम्। सम्प्रश्नमिति सम्ऽप्रश्नम्। भुवना। यन्ति। अन्या॥२७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यः) (नः) अस्माकम् (पिता) पालकः (जनिता) सर्वेषां पदार्थानां प्रादुर्भावयिता (यः) (विधाता) कर्मानुसारेण फलप्रदाता जगन्निर्माता (धामानि) जन्मस्थाननामानि (वेद) जानाति (भुवनानि) सर्वपदार्थाधिकरणानि (विश्वा) सर्वाणि (यः) (देवानाम्) विदुषां पृथिव्यादीनां वा (नामधाः) य स्वविद्यया नामानि दधाति (एकः) अद्वितीयोऽसहायः (एव) (तम्) (सम्प्रश्नम्) सम्यक् पृच्छति यस्मिँस्तम् (भुवना) लोकस्थपदार्थान् (यन्ति) प्राप्नुवन्ति गच्छन्ति वा (अन्या) अन्यानि भुवनस्थानि॥२७॥
Essence
यः सर्वस्य विश्वस्य पितृवत् पालकः सर्वज्ञोऽद्वितीयः परमेश्वरो वर्त्तते, तस्य तत्सृष्टेश्च विज्ञानेनैव सर्वे मनुष्याः परस्परं मिलित्वा प्रश्नोत्तराणि कुर्वन्तु॥२७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यो नः पिता जनिता यो विधाता विश्वा भुवनानि धामानि वेद। यो देवानां नामधा एक एवास्ति, यमन्या भुवना यन्ति, सम्प्रश्नं तं यूयं जानीत॥२७॥