Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 26

99 Mantra
17/26
Devata- विश्वकर्मा देवता Rishi- भुवनपुत्रो विश्वकर्मा ऋषिः Chhand- भुरिगार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वि॒श्वक॑र्म्मा॒ विम॑ना॒ऽआद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक्। तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऽऋ॒षीन् प॒रऽएक॑मा॒हुः॥२६॥

वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। विम॑ना॒ इति॒ विऽम॑नाः। आत्। विहा॑या॒ इति॒ विऽहा॑याः। धा॒ता। वि॒धा॒तेति॑ विऽधा॒ता। प॒र॒मा। उ॒त। स॒न्दृगिति॑ स॒म्ऽदृक्। तेषा॑म्। इ॒ष्टानि॑। सम्। इ॒षा। म॒द॒न्ति॒। यत्र॑। स॒प्त॒ऋ॒षीनिति॑ सप्तऽऋ॒षीन्। प॒रः। एक॑म्। आ॒हुः ॥२६ ॥

Mantra without Swara
विश्वकर्मा विमनाऽआद्विहाया धाता विधाता परमोत सन्दृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऽऋषीन्पर एकमाहुः ॥

विश्वकर्मेति विश्वऽकर्मा। विमना इति विऽमनाः। आत्। विहाया इति विऽहायाः। धाता। विधातेति विऽधाता। परमा। उत। सन्दृगिति सम्ऽदृक्। तेषाम्। इष्टानि। सम्। इषा। मदन्ति। यत्र। सप्तऋषीनिति सप्तऽऋषीन्। परः। एकम्। आहुः॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विश्वकर्मा) विश्वं सर्वं जगत् कर्म क्रियमाणं यस्य सः (विमनाः) विविधं मनो विज्ञानं यस्य सः (आत्) आनन्तर्ये (विहायाः) विविधेषु पदार्थेषु व्याप्तः। अत्रोहाङ् गतावित्यस्मादसुन् णित्कार्यं च (धाता) धर्त्ता पोषको वा (विधाता) निर्माता (परमा) परमाणि श्रेष्ठानि (उत) अपि (सन्दृक्) या सम्यक् पश्यति (तेषाम्) (इष्टानि) सुखसाधकानि कर्माणि (सम्) (इषा) इच्छया (मदन्ति) हर्षन्ति (यत्र) अत्र ऋचि तुनुघ॰ [अष्टा॰६.३.१३३] इति दीर्घः (सप्तऋषीन्) सप्तप्राणादीन्। प्राणदयः पञ्च सूत्रात्मा धनञ्जयश्चेति (परः) सर्वोत्तमः (एकम्) अद्वितीयम् (आहुः) कथयन्ति॥२६॥
Essence
मनुष्यैः सर्वस्य जगतः स्रष्टा धर्त्ता पालको नाशकोऽद्वितीयः परमेश्वर एवेष्टसाधना-योपासनीयः॥२६॥
Subject
अथ परमेश्वरः कीदृशोऽस्तीत्युपदिश्यते॥
Anvaya
हे मनुष्याः! विश्वकर्मा यो विमना विहाया धाता विधाता संदृक् परोऽस्ति, यमेकमाहुराद् यत्र सप्तऋषीन् प्राप्येषा जीवाः संमदन्त्युत यस्तेषां परमेष्टानि साध्नोति तं परमेश्वरं यूयमुपाध्वम्॥२६॥