Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 25

99 Mantra
17/25
Devata- विश्वकर्मा देवता Rishi- भुवनपुत्रो विश्वकर्मा ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑नेऽअजन॒न्नम्न॑माने। य॒देदन्ता॒ऽअद॑दृहन्त॒ पूर्व॒ऽआदिद् द्यावा॑पृथि॒वीऽअ॑प्रथेताम्॥२५॥

चक्षु॑षः। पि॒ता। मन॑सा। हि। धीरः॑। घृ॒तम्। ए॒न॒ऽइत्ये॑ने। अ॒ज॒न॒त्। नम्न॑माने॒ऽइति॒ नम्न॑माने। य॒दा। इत्। अन्ताः॑। अद॑दृहन्त। पूर्वें॑। आत्। इत्। द्यावा॑पृथि॒वी। अ॒प्र॒थे॒ता॒म् ॥२५ ॥

Mantra without Swara
चक्षुषः पिता मनसा हि धीरो घृतमेनेऽअजनन्नम्नमाने । यदेदन्ताऽअददृहन्त पूर्वऽआदिद्द्यावापृथिवीऽअप्रथेताम् ॥

चक्षुषः। पिता। मनसा। हि। धीरः। घृतम्। एनऽइत्येने। अजनत्। नम्नमानेऽइति नम्नमाने। यदा। इत्। अन्ताः। अददृहन्त। पूर्वें। आत्। इत्। द्यावापृथिवी। अप्रथेताम्॥२५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(चक्षुषः) न्यायदर्शकस्य (पिता) पालकः (मनसा) योगाभ्यासेन शान्तान्तःकरणेन (हि) खलु (धीरः) धैर्य्यवान् (घृतम्) आज्यम् (एने) राजप्रजादले (अजनत्) प्रकटयेत् (नम्नमाने) ये नम्न इवाचरतस्ते। अत्राचारे क्विप् व्यत्ययेनात्मनेपदम् (यदा) (इत्) एव (अन्ताः) अन्तावयवाः (अददृहन्त) वर्द्धेरन्। अत्र दृंह धातोर्लटि झादेशे कृते शपः श्लुस्ततो द्वित्वम् (पूर्वे) प्रथमतो वर्त्तमाने (आत्) अनन्तरम् (इत्) (द्यावापृथिवी) प्रकाशभूमी इव संगते (अप्रथेताम्) प्रख्याते भवेताम्॥२५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यदा मनुष्या राजप्रजाव्यवहार एकसम्मतयो भूत्वा सदैव प्रयतेरंस्तदा सूर्यपृथिवीवत् स्थिरसुखा भवेयुः॥२५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे प्रजाजनाः! भवन्तो यश्चक्षुषः पिता मनसा हि धीरो घृतमजनत्, तमधिकृत्य एने नम्नमाने पूर्वे द्यावापृथिवी अप्रथेतामिव यदेदन्ता इवाददृहन्त, तथाऽऽदित् स्थिरराज्या भवेयुः॥२५॥