Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 19

99 Mantra
17/19
Devata- विश्वकर्मा देवता Rishi- भुवनपुत्रो विश्वकर्मा ऋषिः Chhand- भुरिगार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात्। सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न् दे॒वऽएकः॑॥१९॥

वि॒श्वत॑श्चक्षु॒रिति॑ वि॒श्वतः॑ऽचक्षुः। उ॒त। वि॒श्वतो॑मुख॒ इति॑ वि॒श्वतः॑ऽमुखः। वि॒श्वतो॑बाहु॒रिति॑ वि॒श्वतः॑ऽबाहुः। उ॒त। वि॒श्वत॑स्पात्। वि॒श्वतः॑ऽपा॒दिति॑ वि॒श्वतः॑ऽपात्। सम्। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। धम॑ति। सम्। पत॑त्रैः। द्यावा॒भूमी॒ इति॒ द्यावा॒भूमी॑। ज॒नय॑न्। दे॒वः। एकः॑ ॥१९ ॥

Mantra without Swara
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सम्बाहुभ्यान्धमति सम्पतत्रैर्द्यावाभूमी जनयन्देवऽएकः ॥

विश्वतश्चक्षुरिति विश्वतःऽचक्षुः। उत। विश्वतोमुख इति विश्वतःऽमुखः। विश्वतोबाहुरिति विश्वतःऽबाहुः। उत। विश्वतस्पात्। विश्वतःऽपादिति विश्वतःऽपात्। सम्। बाहुभ्यामिति बाहुऽभ्याम्। धमति। सम्। पतत्रैः। द्यावाभूमी इति द्यावाभूमी। जनयन्। देवः। एकः॥१९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विश्वतश्चक्षुः) विश्वतः सर्वस्मिञ्जगति चक्षुर्दर्शनं यस्य सः (उत) अपि (विश्वतोमुखः) विश्वतः सर्वतो मुखमुपदेशनमस्य सः (विश्वतोबाहुः) सर्वतो बाहुर्बलं वीर्यं वा यस्य सः (उत) अपि (विश्वतस्पात्) विश्वतः सर्वत्र पात् गतिर्व्याप्तिर्यस्य सः (सम्) सम्यक् (बाहुभ्याम्) अनन्ताभ्यां बलवीर्य्याभ्याम् (धमति) प्राप्नोति। धमतीति गतिकर्मा॥ (निघं॰२.१४) (सम्) (पतत्रैः) पतनशीलैः परमाण्वादिभिः (द्यावाभूमी) सूर्य्यपृथिवीलोकौ (जनयन्) कार्यरूपेण प्रकटयन् सन् (देवः) स्वप्रकाशः (एकः) अद्वितीयोऽसहायः॥१९॥
Essence
यस्सूक्ष्मात् सूक्ष्मो महतो महान् निराकारोऽनन्तसामर्थ्यः सर्वत्राभिव्याप्तो देवोऽद्वितीयः परमात्माऽस्ति, स एवातिसूक्ष्मात् कारणात् स्थूलं कार्यं रचयितुं विनाशयितुं वा समर्थो वर्त्तते। य एतस्योपासनं विहायान्यमुपास्ते कस्तस्मादन्यो जगति दुर्भगोऽस्ति॥१९॥
Subject
पुनस्तदेवाह॥
Anvaya
हे मनुष्याः! यूयं यो विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पादेको देवः पतत्रैर्द्यावाभूमी संजनयन् सन् बाहुभ्यां सर्वं जगत् संधमति, तमेवेष्टमुपास्यमभिरक्षकं परमेश्वरं जानीत॥१९॥