Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 18

99 Mantra
17/18
Devata- विश्वकर्मा देवता Rishi- भुवनपुत्रो विश्वकर्मा ऋषिः Chhand- भुरिगार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
किस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत् स्वि॑त् क॒थासी॑त्। यतो॒ भूमिं॑ ज॒नय॑न् वि॒श्वक॑र्मा॒ वि द्यामौर्णोन्महि॒ना वि॒श्वच॑क्षाः॥१८॥

किम्। स्वि॒त्। आ॒सी॒त्। अ॒धि॒ष्ठान॑म्। अ॒धि॒स्थान॒मित्य॑धि॒ऽस्थान॑म्। आ॒रम्भ॑ण॒मित्या॒ऽरम्भ॑णम्। क॒त॒मत्। स्वि॒त्। क॒था। आ॒सी॒त्। यतः॑। भूमि॑म्। ज॒नय॑न्। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। वि। द्याम्। और्णो॑त्। म॒हि॒ना। वि॒श्वच॑क्षा॒ इति॑ वि॒श्वऽच॑क्षाः ॥१८ ॥

Mantra without Swara
किँ स्विदासीदधिष्ठानमारम्भणङ्कतमत्स्वित्कथासीत् । यतो भूमिञ्जनयन्विश्वकर्मा वि द्याऔर्णान्महिना विश्वचक्षाः ॥

किम्। स्वित्। आसीत्। अधिष्ठानम्। अधिस्थानमित्यधिऽस्थानम्। आरम्भणमित्याऽरम्भणम्। कतमत्। स्वित्। कथा। आसीत्। यतः। भूमिम्। जनयन्। विश्वकर्मेति विश्वऽकर्मा। वि। द्याम्। और्णोत्। महिना। विश्वचक्षा इति विश्वऽचक्षाः॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(किम्) प्रश्ने (स्वित्) वितर्के (आसीत्) (अधिष्ठानम्) अधितिष्ठन्ति यस्मिंस्तत् (आरम्भणम्) आरभते यस्मात् तत् (कतमत्) बहूनामुपादानानां मध्ये किमिति प्रश्ने (स्वित्) (कथा) केन प्रकारेण (आसीत्) अस्ति (यतः) (भूमिम्) (जनयन्) उत्पादयन् (विश्वकर्मा) विश्वान्यखिलानि कर्माणि यस्य परमेश्वरस्य सः (वि) विविधतया (द्याम्) सूर्यादिलोकम् (और्णोत्) ऊर्णुत आच्छादयति (महिना) स्वस्य महिम्ना। अत्र छान्दसो वर्णलोप इति मकारलोपः (विश्वचक्षाः) यो विश्वं सर्वं जगच्चष्टे पश्यति सः॥१८॥
Essence
हे जनाः! युष्माभिरिदं जगत् क्व वसति? किमारम्भणं चास्य? किमर्थं जायते? इत्यादि-प्रश्नानामिदमुत्तरम्। यो जगदीश्वरः कार्य्याख्यं जगदुत्पाद्य स्वव्याप्त्या सर्वमाच्छाद्य सर्वज्ञतया सर्वं पश्यति, सोऽधिष्ठानमारम्भणं चास्ति, सर्वशक्तिमान् रचनादिसामर्थ्ययुक्तोऽस्ति, जीवेभ्यः पापपुण्यफलदानाय भोजयितुं सर्वं रचितवानिति वेद्यम्॥१८॥
Subject
पुनस्तदेवाह॥
Anvaya
हे विद्वन्नस्य जगतोऽधिष्ठानं किं स्विदासीत्? आरम्भणं कतमत्? कथा स्विदासीत्? यतो विश्वकर्मा विश्वचक्षा जगदीश्वरो भूमिं द्यां च जनयन् महिना व्यौर्णोत्॥१८॥