Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 16

99 Mantra
17/16
Devata- अग्निर्देवता Rishi- भारद्वाज ऋषिः Chhand- निचृदार्षी गायत्री Swara- षड्जः
Mantra with Swara
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्यत्रिण॑म्। अ॒ग्निर्नो॑ वनते र॒यिम्॥१६॥

अ॒ग्निः ति॒ग्मेन॑। शो॒चिषा॑। यास॑त्। विश्व॑म्। नि। अ॒त्रिण॑म्। अ॒ग्निः। नः॒। व॒न॒ते॒। र॒यिम् ॥१६ ॥

Mantra without Swara
अग्निस्तिग्मेन शोचिषा यासद्विश्वन्न्यत्रिणम् । अग्निर्ना वनते रयिम् ॥

अग्निः तिग्मेन। शोचिषा। यासत्। विश्वम्। नि। अत्रिणम्। अग्निः। नः। वनते। रयिम्॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्निः) विद्युत् (तिग्मेन) तीव्रेण (शोचिषा) प्रकाशेन (यासत्) प्राप्नोति (विश्वम्) सर्वम् (नि) (अत्रिणम्) अत्तुं भोक्तुं योग्यम् (अग्निः) (नः) अस्मभ्यम् (वनते) विभजति (रयिम्) द्रव्यम्॥१६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। विद्वद्भिर्यथा पावकः स्वतेजसा शुष्कमशुष्कं तृणादिकं दहति, तथाऽस्माकं सर्वान् दोषान् दग्ध्वा गुणाः प्रापणीयाः। यथा विद्युत् सर्वान् पदार्थान् सेवते, तथास्मभ्यं सर्वा विद्यां सेवयित्वा वयमविद्यायाः पृथक्करणीयाः॥१६॥
Subject
विद्वान् कीदृशो भवेदित्याह॥
Anvaya
हे विद्वन्! यथाऽग्निस्तिग्मेन शोचिषा विश्वमत्रिणं यासत्, यथाग्निर्विद्युन्नो रयिं निवनते, तथा त्वमस्मदर्थं भव॥१६॥