Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 13

99 Mantra
17/13
Devata- प्राणो देवता Rishi- लोपामुद्रा ऋषिः Chhand- निचृदार्षी जगती Swara- षड्जः
Mantra with Swara
ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑ना संवत्स॒रीण॒मुप॑ भा॒गमास॑ते। अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञेऽअ॒स्मिन्त्स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑॥१३॥

ये। दे॒वाः। दे॒वाना॑म्। य॒ज्ञियाः॑। य॒ज्ञिया॑नाम्। सं॒व॒त्स॒रीण॑म्। उप॑। भा॒गम्। आस॑ते। अ॒हु॒ताद॒ इत्य॑हुत॒ऽअदः॑। ह॒विषः॑। य॒ज्ञे। अ॒स्मिन्। स्व॒यम्। पि॒ब॒न्तु॒। मधु॑नः। घृ॒तस्य॑ ॥१३ ॥

Mantra without Swara
ये देवा देवानाँयज्ञिया यज्ञियानाँ सँवत्सरीणमुप भागमासते । अहुतादो हविषो यज्ञेऽअस्मिन्त्स्वयम्पिबन्तु मधुनो घृतस्य ॥

ये। देवाः। देवानाम्। यज्ञियाः। यज्ञियानाम्। संवत्सरीणम्। उप। भागम्। आसते। अहुताद इत्यहुतऽअदः। हविषः। यज्ञे। अस्मिन्। स्वयम्। पिबन्तु। मधुनः। घृतस्य॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ये) (देवाः) विद्वांसः (देवानाम्) विदुषाम् (यज्ञियाः) ये यज्ञमर्हन्ति ते (यज्ञियानाम्) यज्ञसम्पादनकुशलानाम् (संवत्सरीणम्) यः संवत्सरं भृतस्तम् । संपरिपूर्वात् खच्॥ (अष्टा॰५.१.९२) इति भृतार्थे खः (उप) (भागम्) सेवनीयम् (आसते) (अहुतादः) येऽहुतमदन्ति ते (हविषः) होतव्यस्य (यज्ञे) संगन्तव्ये (अस्मिन्) (स्वयम्) (पिबन्तु) (मधुनः) क्षौद्रस्य (घृतस्य) आज्यस्य जलस्य वा॥१३॥
Essence
येऽस्मिन् संसारे अनग्नयोऽर्थादाहवनीयगार्हपत्यदक्षिणाग्निसम्बन्धिबाह्यकर्माणि विहायान्तरग्नयः संन्यासिनः सन्ति, ते होममकुर्वन्तो भुञ्जानाः सर्वत्र विहृत्य सर्वान् जनान् वेदार्थान् बोधयेयुः॥१३॥
Subject
अथ संन्यासिभिः किं कार्यमित्याह॥
Anvaya
ये देवानां मध्येऽहुतादो देवा यज्ञियानां मध्ये यज्ञिया विद्वांसः संवत्सरीणं भागमुपासते, तेऽस्मिन् यज्ञे मधुनो घृतस्य हविषो भागं स्वयं पिबन्तु॥१३॥