Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 11

99 Mantra
17/11
Devata- अग्निर्देवता Rishi- लोपामुद्रा ऋषिः Chhand- भुरिगार्षी बृहती Swara- मध्यमः
Mantra with Swara
नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्तेऽअस्त्व॒र्चिषे॑। अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒कोऽअ॒स्मभ्य॑ꣳ शि॒वो भ॑व॥११॥

नमः॑। ते॒। हर॑से। शो॒चिषे॑। नमः॑। ते॒। अ॒स्तु॒। अ॒र्चिषे॑। अ॒न्यान्। ते॒। अ॒स्मत्। त॒प॒न्तु॒। हे॒तयः॑। पा॒व॒कः। अ॒स्मभ्य॑म्। शि॒वः। भ॒व॒ ॥११ ॥

Mantra without Swara
नमस्ते हरसे शोचिषे नमस्तेऽअस्त्वर्चिषे । अन्याँस्तेऽअस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यँ शिवो भव ॥

नमः। ते। हरसे। शोचिषे। नमः। ते। अस्तु। अर्चिषे। अन्यान्। ते। अस्मत्। तपन्तु। हेतयः। पावकः। अस्मभ्यम्। शिवः। भव॥११॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) सत्करणम् (ते) तुभ्यम् (हरसे) यो दुःखं हरति तस्मै (शोचिषे) पवित्राय (नमः) (ते) (अस्तु) (अर्चिषे) पूज्याय (अन्यान्) भिन्नान् शत्रून् (ते) तव (अस्मत्) (तपन्तु) सन्तापयन्तु (हेतयः) वज्रादिशस्त्रास्त्रयुक्ताः सेनाः (पावकः) शोधकः (अस्मभ्यम्) (शिवः) न्यायकारी (भव)॥११॥
Essence
मनुष्यैः पवित्रान् जनान् न्यायाधीशान् कृत्वा दुष्टान् निवार्य्य सत्यो न्यायः प्रकाशयित्व्यः॥११॥
Subject
न्यायाधीशेन कथं भवितव्यमित्याह॥
Anvaya
हे सभापते! ते हरसेऽस्मत्कृतं नमोऽस्तु, शोचिषेऽर्चिषे तेऽस्मत्प्रयुक्तं नमोऽस्तु, यस्ते हेतयस्ता अस्मदन्याँस्तपन्तु, पावकस्त्वमस्मभ्यं शिवो भव॥११॥