Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 63

66 Mantra
16/63
Devata- रुद्रा देवताः Rishi- परमेष्ठी प्रजापतिर्वा देवा ऋषयः Chhand- भुरिगार्ष्युष्णिक् Swara- गान्धारः
Mantra with Swara
यऽए॒ताव॑न्तश्च॒ भूया॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि॥६३॥

ये। ए॒ताव॑न्तः। च॒। भूया॑सः। च॒। दिशः॑। रु॒द्राः। वि॒त॒स्थि॒र इति॑ विऽतस्थि॒रे। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥६३ ॥

Mantra without Swara
ये एतावन्तश्च भूयाँसश्च दिशो रुद्रा वितस्थिरे । तेषाँ सहस्रयोजने व धन्वानि तन्मसि ॥

ये। एतावन्तः। च। भूयासः। च। दिशः। रुद्राः। वितस्थिर इति विऽतस्थिरे। तेषाम्। सहस्रयोजन इति सहस्रऽयोजने। अव। धन्वानि। तन्मसि॥६३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ये) (एतावन्तः) यावन्तो व्याख्याताः (च) (भूयांसः) तेभ्योऽप्यधिकाः (च) (दिशः) पूर्वाद्याः (रुद्राः) प्राणजीवाः (वितस्थिरे) विविधतया तिष्ठन्ति (तेषाम्) (सहस्रयोजने) एतत्संख्यापरिमिते देशे (अव) विरोधार्थे (धन्वानि) अन्तरिक्षावयवान्। धन्वेत्यन्तरिक्षनामसु पठितम्॥ (निघण्टौ १।३) (तन्मसि)॥६३॥
Essence
ये मनुष्याः सर्वासु दिक्षु स्थितान् जीवान् वायून् वा यथावदुपयुञ्जते, तेषां सर्वकार्याणि सिद्धानि भवन्ति॥६३॥
Subject
पुनस्तदेवाह॥
Anvaya
वयं य एतावन्तश्च भूयांसश्च रुद्रा दिशो वितस्थिरे तेषां सहस्रयोजने धन्वान्यवतन्मसि॥६३॥