Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 62

66 Mantra
16/62
Devata- रुद्रा देवताः Rishi- परमेष्ठी प्रजापतिर्वा देवा ऋषयः Chhand- विराडार्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न्। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि॥६२॥

ये। अन्ने॑षु। वि॒वि॒ध्य॒न्तीति॑ वि॒ऽविध्य॑न्ति। पात्रे॑षु। पिब॑तः। जना॑न्। तेषा॑म्। स॒ह॒स्र॒योज॒न इति॑ सहस्रऽयो॒ज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥६२ ॥

Mantra without Swara
येन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । तेषाँ सहस्रयोजने व धन्वानि तन्मसि ॥

ये। अन्नेषु। विविध्यन्तीति विऽविध्यन्ति। पात्रेषु। पिबतः। जनान्। तेषाम्। सहस्रयोजन इति सहस्रऽयोजने। अव। धन्वानि। तन्मसि॥६२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ये) (अन्नेषु) अत्तव्येषु पदार्थेषु (विविध्यन्ति) बाणा इव सक्षतान् कुर्वन्ति (पात्रेषु) पानसाधनेषु (पिबतः) पानं कुर्वतः (जनान्) मनुष्यादिप्राणिनः। तेषामिति पूर्ववत्॥६२॥
Essence
येऽन्नाहारं जलादिपानं कुर्वतो विषादिना घ्नन्ति, तेभ्यः सर्वैर्दूरे वसनीयम्॥६२॥
Subject
पुनस्तदेवाह॥
Anvaya
वयं येऽन्नेषु वर्त्तमानान् पात्रेषु पिबतो जनान् विविध्यन्ति, तेषां प्रतिकाराय सहस्रयोजने धन्वान्यवतन्मसि॥६२॥