Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 55

66 Mantra
16/55
Devata- रुद्रा देवताः Rishi- परमेष्ठी प्रजापतिर्वा देवा ऋषयः Chhand- भुरिगार्ष्युष्णिक् Swara- ऋषभः
Mantra with Swara
अ॒स्मिन् म॑ह॒त्यर्ण॒वेऽन्तरि॑क्षे भ॒वाऽअधि॑। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि॥५५॥

अ॒स्मिन्। म॒ह॒ति। अ॒र्ण॒वे। अ॒न्तरि॑क्षे। भ॒वाः। अधि॑। तेषा॑म्। स॒ह॒स्र॒यो॒जन इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥५५ ॥

Mantra without Swara
अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि । तेषाँ सहस्रयोजने व धन्वानि तन्मसि ॥

अस्मिन्। महति। अर्णवे। अन्तरिक्षे। भवाः। अधि। तेषाम्। सहस्रयोजन इति सहस्रऽयोजने। अव। धन्वानि। तन्मसि॥५५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अस्मिन्) (महति) व्यापकत्वादिमहागुणविशिष्टे (अर्णवे) बहून्यर्णांसि जलानि विद्यन्ते यस्मिँस्तस्मिन्निव। अर्ण इत्युदकनामसु पठितम्॥ (निघं॰१।१२) अर्णसो लोपश्च [अष्टा॰वा॰५.२.१०९] इति सलोपो वप्रत्ययश्च। (अन्तरिक्षे) अन्तरक्षय आकाशे (भवाः) वर्त्तमानाः (अधि) (तेषाम्॰) इति पूर्ववत्॥५५॥
Essence
मनुष्यैर्यथा भूमिस्थेभ्यो जीवेभ्यो वायुभ्यश्च कार्योपयोगः क्रियते, तथाऽन्तरिक्षस्थेभ्योऽपि कर्त्तव्यः॥५५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यथा वयं येऽस्मिन् महत्यर्णवेऽन्तरिक्षे भवा रुद्रा जीवा वायवश्च सन्ति, तेषां प्रयोगं कृत्वा सहस्रयोजने धन्वान्यध्यवतन्मसि, तथा यूयमपि कुरुत॥५५॥