Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 51

66 Mantra
16/51
Devata- रुद्रा देवताः Rishi- परमेष्ठी प्रजापतिर्वा देवा ऋषयः Chhand- निचृदार्षी यवमध्या त्रिष्टुप् Swara- धैवतः
Mantra with Swara
मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव। प॒र॒मे वृ॒क्षऽआयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ऽआ च॑र॒ पिना॑क॒म्बिभ्र॒दा ग॑हि॥५१॥

मीढु॑ष्टम। मीढु॑स्त॒मेति॒ मीढुः॑ऽतम। शिव॑त॒मेति॒ शिव॑ऽतम। शि॒वः। नः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। भ॒व॒। प॒र॒मे। वृ॒क्षे। आयु॑धम्। नि॒धायेति॑ नि॒ऽधाय॑। कृत्ति॑म्। वसा॑नः। आ। च॒र॒। पिना॑कम्। बिभ्र॑त्। आ। ग॒हि॒ ॥५१ ॥

Mantra without Swara
मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष आयुधन्निधाय कृत्तिँवसानऽआचर पिनाकम्बिभ्रदा गहि ॥

मीढुष्टम। मीढुस्तमेति मीढुःऽतम। शिवतमेति शिवऽतम। शिवः। नः। सुमना इति सुऽमनाः। भव। परमे। वृक्षे। आयुधम्। निधायेति निऽधाय। कृत्तिम्। वसानः। आ। चर। पिनाकम्। बिभ्रत्। आ। गहि॥५१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मीढुष्टम) योऽतिशयेन मीढ्वान् वीर्य्यवाँस्तत्सम्बुद्धौ (शिवतम) अतिशयेन कल्याणकारिन् (शिवः) सुखकारी (नः) अस्मभ्यम् (सुमनाः) शोभनं मनो यस्य सः (भव) (परमे) प्रकृष्टे (वृक्षे) व्रश्चनीये छेदनीये शत्रुसैन्ये (आयुधम्) असिभुशुण्डीशतघ्न्यादिकम् (निधाय) धृत्वा (कृत्तिम्) मृगचर्मादिमयीम् (वसानः) शरीरमाच्छादयन् (आ) (चर) (पिनाकम्) पाति रक्षति आत्मानं येन तद्धनुर्वर्मादिकम्। पातेर्नुक् च (उणा॰४।१५) इति पातेराकः प्रत्ययः। (बिभ्रत्) धरन् (आ) (गहि) आगच्छ॥५१॥
Essence
सभासेनेशादयः स्वप्रजासु मङ्गलाचारिणो दुष्टेषु चाग्निरिव दाहकाः स्युर्येन सर्वे धर्मपथं विहायाधर्मं कदापि नाचरेयुः॥५१॥
Subject
सभाध्यक्षादिभिः किं कार्यमित्याह॥
Anvaya
हे मीढुष्टम शिवतम सभासेनेश! त्वं नः सुमनाः शिवो भव। आयुधं निधाय कृत्तिं वसानः पिनाकं बिभ्रत् सन्नस्माकं रक्षणायागहि परमे वृक्ष आचर॥५१॥