Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 41

66 Mantra
16/41
Devata- रुद्रा देवताः Rishi- परमेष्ठी प्रजापतिर्वा देवा ऋषयः Chhand- स्वराडार्षी बृहती Swara- मध्यमः
Mantra with Swara
नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॥४१॥

नमः॑। श॒म्भ॒वायेति॑ शम्ऽभ॒वाय॑। च॒। म॒यो॒भ॒वायेति॑ मयःऽभ॒वाय॑। च॒। नमः॑। श॒ङ्क॒रायेति॑ शम्ऽक॒राय॑। च॒। म॒य॒स्क॒राय॑। म॒यः॒क॒रायेति॑ मयःऽक॒राय॑। च॒। नमः॑। शि॒वाय॑। च॒। शि॒वत॑रा॒येति॑ शि॒वऽत॑राय। च॒ ॥४१ ॥

Mantra without Swara
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

नमः। शम्भवायेति शम्ऽभवाय। च। मयोभवायेति मयःऽभवाय। च। नमः। शङ्करायेति शम्ऽकराय। च। मयस्कराय। मयःकरायेति मयःऽकराय। च। नमः। शिवाय। च। शिवतरायेति शिवऽतराय। च॥४१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) सत्करणम् (शम्भवाय) यः शं सुखं भावयति तस्मै परमेश्वराय सेनाधीशाय वा, अत्रान्तर्भावितो ण्यर्थः। (च) (मयोभवाय) मयः सुखं भवति यस्मात् तस्मै (च) (नमः) सत्करणम् (शङ्कराय) यः सर्वेषां सुखं करोति तस्मै (च) (मयस्कराय) यः सर्वेषां प्राणिनां मयः सुखं करोति तस्मै (च) (नमः) सत्करणम् (शिवाय) मङ्गलकारिणे (च) (शिवतराय) अतिशयेन मङ्गलस्वरूपाय (च)॥४१॥
Essence
मनुष्यैः प्रेमभक्त्या सर्वमङ्गलप्रदः परमेश्वर एवोपास्यो बलाध्यक्षश्च सत्कर्त्तव्यो यतः स्वाभीष्टानि सिध्येयुः॥४१॥
Subject
जनैः कथं स्वाभीष्टं साध्यमित्याह॥
Anvaya
ये मनुष्याः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः कुर्वन्ति ते कल्याणमाप्नुवन्ति॥४१॥