Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 40

66 Mantra
16/40
Devata- रुद्रा देवताः Rishi- परमेष्ठी प्रजापतिर्वा देवा ऋषयः Chhand- अतिशक्वरी Swara- पञ्चमः
Mantra with Swara
नमः॑ श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑॥४०॥

नमः॑। श॒ङ्गव॒ इति॑ श॒म्ऽगवे॑। च॒। प॒शु॒पत॑य इति॑ प॒शु॒ऽपत॑ये। च॒। नमः॑। उ॒ग्राय॑। च॒। भी॒माय॑। च॒। नमः॑। अ॒ग्रे॒व॒धायेत्य॑ग्रेऽव॒धाय॑। च॒। दू॒रे॒व॒धायेति॑ दूरेऽव॒धाय॑। च॒। नमः॑। ह॒न्त्रे। च॒। हनी॑यसे। च॒। नमः॑। वृ॒क्षेभ्यः॑। हरि॑केशेभ्य इति॒ हरि॑ऽकेशेभ्यः। नमः॑। ता॒राय॑ ॥४० ॥

Mantra without Swara
नमः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च नमोग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय ॥

नमः। शङ्गव इति शम्ऽगवे। च। पशुपतय इति पशुऽपतये। च। नमः। उग्राय। च। भीमाय। च। नमः। अग्रेवधायेत्यग्रेऽवधाय। च। दूरेवधायेति दूरेऽवधाय। च। नमः। हन्त्रे। च। हनीयसे। च। नमः। वृक्षेभ्यः। हरिकेशेभ्य इति हरिऽकेशेभ्यः। नमः। ताराय॥४०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) अन्नादिकम् (शङ्गवे) शं सुखं गच्छति प्राप्नोति तस्मै (च) (पशुपतये) गवादिपशूनां पालकाय (च) (नमः) सत्करणम् (उग्राय) तेजस्विने (च) (भीमाय) बिभेति यस्मात् तस्मै भयङ्कराय (च) (नमः) अन्नादिकम् (अग्रेवधाय) योऽग्रे पुरः शत्रून् बध्नाति हन्ति वा तस्मै (च) (दूरेवधाय) योऽरीन् दूरे बध्नाति तस्मै (च) (नमः) अन्नादिदानम् (हन्त्रे) यो दुष्टान् हन्ति तस्मै (च) (हनीयसे) दुष्टानामतिशयेन हन्त्रे विनाशकाय (च) (नमः) सत्करणम् (वृक्षेभ्यः) ये शत्रून् वृश्चन्ति छिन्दन्ति तेभ्यः पादपेभ्यो वा (हरिकेशेभ्यः) हरयो हरिताः केशा येषां तेभ्यो युवभ्यो वा (नमः) अन्नादिकम् (ताराय) दुःखात् सन्तारकाय॥४०॥
Essence
मनुष्यैर्गवादिपशुपालनेन भयङ्करादिशान्तिकरणेन च संतोष्टव्यम्॥४०॥
Subject
मनुष्यैः कथं संतोष्टव्यमित्याह॥
Anvaya
ये मनुष्याः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमो दद्युः कुर्युस्ते सुखिनः स्युः॥४०॥