Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 38

66 Mantra
16/38
Devata- रुद्रा देवताः Rishi- कुत्स ऋषिः Chhand- भुरिगार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
नमः॒ कूप्या॑य चाव॒ट्याय च॒ नमो॒ वीध्र्या॑य चात॒प्याय च॒ नमो॒ मेघ्या॑य च विद्यु॒त्याय च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॥३८॥

नमः॑। कूप्या॑य। च॒। अ॒व॒ट्या᳖य। च॒। नमः॑। वीध्र्या॒येति॑ वि॒ऽईध्र्या॑य। च॒। आ॒त॒प्या᳖येत्याऽत॒प्या᳖य। च॒। नमः॑। मेघ्या॑य। च॒। वि॒द्यु॒त्या᳖येति॑ विऽद्यु॒त्या᳖य। च॒। नमः॑। वर्ष्या॑य। च॒। अ॒व॒र्ष्याय॑। च॒ ॥३८ ॥

Mantra without Swara
नमः कूप्याय चावट्याय च नमो वीर्ध्याय चातप्याय च नमो मेघ्याय च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च नमो वात्याय ॥

नमः। कूप्याय। च। अवट्याय। च। नमः। वीध्र्यायेति विऽईध्र्याय। च। आतप्यायेत्याऽतप्याय। च। नमः। मेघ्याय। च। विद्युत्यायेति विऽद्युत्याय। च। नमः। वर्ष्याय। च। अवर्ष्याय। च॥३८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) अन्नादिकम् (कूप्याय) कूपे भवाय (च) (अवट्याय) अवटेषु गर्त्तेषु भवाय (च) जङ्गलेषु भवाय (नमः) सस्यादिकम् (वीध्र्याय) विविधेषु ईधेषु दीपनेषु भवाय, अत्र विपूर्वकादिन्धिधातोरौणादिको रक् प्रत्ययः। (च) (आतप्याय) आतपेषु भवाय (च) कृष्यादेः प्रबन्धकर्त्रे (नमः) अन्नादिकम् (मेघ्याय) मेघेषु भवाय (च) (विद्युत्याय) विद्युति भवाय (च) अग्निविद्याविदे (नमः) सत्कारक्रियाम् (वर्ष्याय) वर्षासु भवाय (च) (अवर्ष्याय) अविद्यमानासु वर्षासु भवाय (च)॥३८॥
Essence
यदि मनुष्याः कूपादिभ्यः कार्यसिद्धये भृत्यान् सत्कुर्युस्तर्ह्यनेकान्युत्तमानि कार्याणि कर्त्तुं शक्नुयुः॥३८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
मनुष्याः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेघ्याय च विद्युत्याय च नमो वर्ष्याय चावर्ष्याय च नमो दत्त्वा कृत्वा चानन्दन्तु॥३८॥