Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 37

66 Mantra
16/37
Devata- रुद्रा देवताः Rishi- कुत्स ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॒ काट्या॑य च॒ नीप्या॑य च॒ नमः॒ कुल्या॑य च सर॒स्याय च॒ नमो॑ नादे॒या॑य च वैश॒न्ताय॑ च॥३७॥

नमः॑। स्रुत्या॑य। च॒। पथ्या॑य। च॒। नमः॑। काट्या॑य। च॒। नीप्या॑य। च॒। नमः॑। कुल्या॑य। च॒। स॒र॒स्या᳖य। च॒। नमः॑। ना॒दे॒याय॑। च॒। वै॒श॒न्ताय॑। च॒ ॥३७ ॥

Mantra without Swara
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च नमः कूप्याय ॥

नमः। स्रुत्याय। च। पथ्याय। च। नमः। काट्याय। च। नीप्याय। च। नमः। कुल्याय। च। सरस्याय। च। नमः। नादेयाय। च। वैशन्ताय। च॥३७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) अन्नदानम् (स्रुत्याय) स्रुतौ प्रस्रवणे भवाय (च) (पथ्याय) पथि भवाय गन्तुकाय (च) मार्गादिशोधकाय (नमः) सत्करणम् (काट्याय) काटेषु कूपेषु भवाय। काट इति कूपनामसु पठितम्॥ (निघं॰३।२३) (च) (नीप्याय) नितरामापो यस्मिन् स नीपस्तत्र भवाय (च) तत्सहायिने (नमः) सत्करणम् (कुल्याय) कुल्यासु नदीषु भवाय। कुल्या इति नदीनामसु पठितम्॥ (निघं॰१।१३) (च) (सरस्याय) सरसि तडागे भवाय (च) (नमः) अन्नादिदानम् (नादेयाय) नदीषु भवाय (च) (वैशन्ताय) वेशन्तेषु क्षुद्रेषु जलाशयेषु भवाय (च)॥३७॥
Essence
मनुष्यैः स्रोतसां मार्गाणां कूपानां जलप्रायदेशानां महदल्पसरसां च जलं चालयित्वा यत्र कुत्र बद्ध्वा क्षेत्रादिषु पुष्कलान्यन्नफलवृक्षलतागुल्मादीनि संवर्धनीयानि॥३७॥
Subject
मनुष्यैरुदकेन कथमुपकर्त्तव्यमित्याह॥
Anvaya
मनुष्यैः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय नमश्च नादेयाय च वैशन्ताय च नमो दत्त्वा दया प्रकाशनीया॥३७॥