Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 34

66 Mantra
16/34
Devata- रुद्रा देवताः Rishi- प्रजापतिर्ऋषिः Chhand- स्वराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ऽआ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभे॒दिने॑ च॥३४॥

नमः॑। वन्या॑य। च॒। कक्ष्या॑य। च॒। नमः॑। श्र॒वाय॑। च॒। प्र॒ति॒श्र॒वायेति॑ प्रतिऽश्र॒वाय॑। च॒। नमः॑। आ॒शुषे॑णाय। आ॒शुसे॑ना॒येत्या॒शुऽसेना॑य। च॒। आ॒शुर॑था॒येत्या॒शुऽर॑थाय। च॒। नमः॑। शूरा॑य। च॒। अ॒व॒भे॒दिन॒ इत्य॑वऽभे॒दिने॑। च॒ ॥३४ ॥

Mantra without Swara
नमो वन्याय च कक्ष्ण्याय च नमः श्रवाय च प्रतिश्रवाय च नमऽआशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च नमो बिल्मिने ॥

नमः। वन्याय। च। कक्ष्याय। च। नमः। श्रवाय। च। प्रतिश्रवायेति प्रतिऽश्रवाय। च। नमः। आशुषेणाय। आशुसेनायेत्याशुऽसेनाय। च। आशुरथायेत्याशुऽरथाय। च। नमः। शूराय। च। अवभेदिन इत्यवऽभेदिने। च॥३४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) अन्नम् (वन्याय) वने जङ्गले भवाय (च) (कक्ष्याय) कक्षासु भवाय (च) (नमः) सत्करणम् (श्रवाय) श्रोत्रे श्रवणहेतवे वा (च) (प्रतिश्रवाय) यः प्रतिशृणोति प्रतिजानीते तस्मै (च) (नमः) अन्नदानम् (आशुषेणाय) आशु शीघ्रगामिनी सेना यस्य तस्मै (च) (आशुरथाय) आशु शीघ्रगामिनो रथा यानानि यस्य तस्मै (च) (नमः) सत्कारम् (शूराय) शत्रूणां हिंसकाय (च) (अवभेदिने) शत्रूनवभेत्तुं विदारयितुं शीलाय (च)॥३४॥
Essence
राजपुरुषैः वनकक्षास्थाध्येत्रध्यापकबलिष्ठसेनातूर्णगामियानस्थवीरदूतानन्नधनादिना सत्कारेण प्रोत्साह्य सदा विजयिभिर्भवितव्यम्॥३४॥
Subject
राजपुरुषैः कथं भवितव्यमित्याह॥
Anvaya
हे मनुष्याः! ये वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च नमः प्रदद्युः कुर्युस्ते सर्वत्र विजयिनो भवन्तु॥३४॥