Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 31

66 Mantra
16/31
Devata- रुद्रा देवताः Rishi- कुत्स ऋषिः Chhand- स्वराडार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
नम॑ऽआ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ऽऊर्म्या॑य चावस्व॒न्याय च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च॥३१॥

नमः॑। आ॒शवे॑। च॒। अ॒जि॒राय॑। च॒। नमः॑। शीघ्र्या॑य। च॒। शीभ्या॑य। च॒। नमः॑। ऊर्म्या॑य। च॒। अ॒व॒स्व॒न्या᳖येत्य॑वऽस्व॒न्या᳖य। च॒। नमः॑। ना॒दे॒याय॑। च॒। द्वीप्या॑य। च॒ ॥३१ ॥

Mantra without Swara
नम आशवे चाजिराय च नमः शीर्घ्याय च शीभ्याय च नमऽऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥

नमः। आशवे। च। अजिराय। च। नमः। शीघ्र्याय। च। शीभ्याय। च। नमः। ऊर्म्याय। च। अवस्वन्यायेत्यवऽस्वन्याय। च। नमः। नादेयाय। च। द्वीप्याय। च॥३१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) अन्नादिकम् (आशवे) वायुरिवाध्वानं व्याप्तायाश्वाय (च) (अजिराय) अश्ववारं प्रक्षेप्त्रे (च) (नमः) अन्नम् (शीघ्र्याय) शीघ्रगतौ साधवे (च) (शीभ्याय) शीभेषु क्षिप्रकारिषु भवाय। शीभमिति क्षिप्रनामसु पठितम्॥ (निघं॰२।१५) (च) (नमः) अन्नम् (ऊर्म्याय) ऊर्मिषु जलतरङ्गेषु भवाय वायुरिव वर्त्तमानाय (च) (अवस्वन्याय) अर्वाचीनेषु स्वनेषु भवाय (च) (नमः) अन्नम् (नादेयाय) नद्यां भवाय (च) (द्वीप्याय) द्वीपेषु द्विर्गतजलेषु देशेषु भवाय (च)॥३१॥
Essence
ये क्रियाकौशलेन रचितैर्विमानादियानैरश्वादिभिश्च शीघ्रं गतिमन्तः सन्ति, ते कं कं द्वीपं देशं वाऽगत्वा राज्याय धनं च नाप्नुवन्ति? किन्तु सर्वत्र गत्वा सर्वमाप्नुवन्ति॥३१॥
Subject
अथोद्योगः कथं कार्य इत्युपदिश्यते॥
Anvaya
हे मनुष्याः! यदि यूयमाशवे चाजिराय च नमः शीघ्र्याय शीभ्याय च नमश्चोर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च नमो दत्त तर्हि भवन्तोऽखिलानन्दान् प्राप्नुत॥३१॥