Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 3

66 Mantra
16/3
Devata- रुद्रो देवता Rishi- परमेष्ठी वा कुत्स ऋषिः Chhand- विराडर्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ꣳसीः॒ पुरु॑षं॒ जग॑त्॥३॥

याम्। इषु॑म्। गि॒रि॒श॒न्तेति॑ गिरिऽशन्त। हस्ते॑। बि॒भर्षि॑। अस्त॑वे। शि॒वाम्। गि॒रि॒त्रेति॑ गिरिऽत्र। ताम्। कु॒रु॒। मा। हि॒ꣳसीः॒। पुरु॑षम्। जग॑त् ॥३ ॥

Mantra without Swara
यामिषुङ्गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवाङ्गिरित्र ताङ्कुरु मा हिँसीः पुरुषञ्जगत् ॥

याम्। इषुम्। गिरिशन्तेति गिरिऽशन्त। हस्ते। बिभर्षि। अस्तवे। शिवाम्। गिरित्रेति गिरिऽत्र। ताम्। कुरु। मा। हिꣳसीः। पुरुषम्। जगत्॥३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(याम्) (इषुम्) बाणावलिम् (गिरिशन्त) गिरिणा मेघेन शं तनोति तत्सम्बुद्धौ (हस्ते) (बिभर्षि) धरसि (अस्तवे) असितुं प्रक्षेप्तुम्, अत्र अस धातोस्तुमर्थे तवेन् प्रत्ययः। (शिवाम्) मङ्गलकारिणीम् (गिरित्र) गिरीन् विद्योपदेशकान् मेघान् वा त्रायते रक्षति तत्सम्बुद्धौ (ताम्) (कुरु) (मा) निषेधे (हिंसीः) हिंस्याः (पुरुषम्) पुरुषार्थयुक्तम् (जगत्) संसारम्॥३॥
Essence
राजपुरुषैः युद्धविद्यां बुध्वा शस्त्राणि धृत्वा मनुष्यादयः श्रेष्ठा प्राणिनो नो हिंसनीयाः, किन्तु मङ्गलाचारेण रक्षणीयाः॥३॥
Subject
अथ राजपुरुषैः किं कर्त्तव्यमित्याह॥
Anvaya
हे गिरिशन्त सेनापते! यतस्त्वमस्तवे यामिषुं हस्ते बिभर्षि, अतस्तां शिवां कुरु। हे गिरित्र! त्वं पुरुषं जगन्मा हिंसीः॥३॥