Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 28

66 Mantra
16/28
Devata- रुद्रा देवताः Rishi- कुत्स ऋषिः Chhand- आर्षी जगती Swara- निषादः
Mantra with Swara
नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॥२८॥

नमः॑। श्वभ्य॒ इति॒ श्वऽभ्यः॑। श्वप॑तिभ्य॒ इति॒ श्वप॑तिऽभ्यः। च॒। वः॒। नमः॑। नमः॑। भ॒वाय॑। च॒। रु॒द्राय॑। च॒। नमः॑। श॒र्वाय॑। च॒। प॒शु॒पत॑य॒ इति॑ पशु॒ऽपत॑ये। च॒। नमः॑। नील॑ग्रीवा॒येति॒ नील॑ऽग्रीवाय। च॒। शि॒ति॒कण्ठा॒येति॑ शिति॒ऽकण्ठा॑य। च॒ ॥२८ ॥

Mantra without Swara
नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने ॥

नमः। श्वभ्य इति श्वऽभ्यः। श्वपतिभ्य इति श्वपतिऽभ्यः। च। वः। नमः। नमः। भवाय। च। रुद्राय। च। नमः। शर्वाय। च। पशुपतय इति पशुऽपतये। च। नमः। नीलग्रीवायेति नीलऽग्रीवाय। च। शितिकण्ठायेति शितिऽकण्ठाय। च॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) अन्नम् (श्वभ्यः) कुक्कुरेभ्यः (श्वपतिभ्यः) शुनां पालकेभ्यः (च) (वः) (नमः) अन्नं सत्करणं च (नमः) सत्करणम् (भवाय) यः शुभगुणादिषु भवति तस्मै (च) (रुद्राय) दुष्टानां रोदकाय (च) (नमः) अन्नादिकम् (शर्वाय) हिंसकाय (च) (पशुपतये) गवादिपशुपालकाय (च) (नमः) अन्नम् (नीलग्रीवाय) नीलः शोभनो वर्णो ग्रीवायां यस्य तस्मै (च) (शितिकण्ठाय) शितिस्तीक्ष्णीभूतः कृष्णो वा कण्ठो यस्य तस्मै (च)॥२८॥
Essence
मनुष्यैः श्वादिपशूनन्नादिदानेन वर्द्धयित्वा तैरुपकारो ग्राह्यः। पशुपालकादीनां सत्कारश्च कार्यः॥२८॥
Subject
मनुष्यैः केभ्यः कथमुपकारो ग्राह्य इत्याह॥
Anvaya
हे मनुष्याः! यथा वयं परीक्षकाः श्वभ्यो नमो वः श्वपतिभ्यो नमश्च, भवाय नमश्च रुद्राय नमश्च शर्वाय नमश्च नमश्च पशुपतये नीलग्रीवाय नमश्च शितिकण्ठाय नमश्च दद्याम कुर्याम तथा यूयमपि दत्त कुरुत च॥२८॥