Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 27

66 Mantra
16/27
Devata- रुद्रा देवताः Rishi- कुत्स ऋषिः Chhand- निचृच्छक्वरी Swara- धैवतः
Mantra with Swara
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒र्मारेभ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्ठे॑भ्यश्च वो॒ नमो॒ नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑॥२७॥

नमः॑। तक्ष॑भ्य॒ इति॒ तक्ष॑ऽभ्यः। र॒थ॒का॒रेभ्य॒ इति॑ रथऽका॒रेभ्यः॑। च॒। वः॒। नमः॑। नमः॑। कुला॑लेभ्यः। क॒र्मारे॑भ्यः। च॒। वः॒। नमः॑। नमः॑। नि॒षा॒देभ्यः॑। नि॒सा॒देभ्य॑ इति निऽसा॒देभ्यः॑। पु॒ञ्जिष्ठे॑भ्यः। च॒। वः॒। नमः॑। नमः॑। श्व॒निभ्य॒ इति॑ श्व॒निऽभ्यः॑। मृ॒ग॒युभ्य॒ इति॑ मृ॒ग॒युऽभ्यः॑। च॒। वः॒। नमः॑ ॥२७ ॥

Mantra without Swara
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कुर्मारेभ्यश्च वो नमो नमो निषादेभ्यः पुञ्जिष्टेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमः श्वभ्यः ॥

नमः। तक्षभ्य इति तक्षऽभ्यः। रथकारेभ्य इति रथऽकारेभ्यः। च। वः। नमः। नमः। कुलालेभ्यः। कर्मारेभ्यः। च। वः। नमः। नमः। निषादेभ्यः। निसादेभ्य इति निऽसादेभ्यः। पुञ्जिष्ठेभ्यः। च। वः। नमः। नमः। श्वनिभ्य इति श्वनिऽभ्यः। मृगयुभ्य इति मृगयुऽभ्यः। च। वः। नमः॥२७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) अन्नम् (तक्षभ्यः) ये तक्ष्णुवन्ति तनूकुर्वन्ति तेभ्यः (रथकारेभ्यः) ये रथान् विमानादियानसमूहान् कुर्वन्ति तेभ्यः शिल्पिभ्यः (च) (वः) (नमः) वेतनादिदानेन सत्करणम् (नमः) अन्नादिकम् (कुलालेभ्यः) मृत्स्नापात्रादिरचकेभ्यः (कर्मारेभ्यः) असिभुशुण्डीशतघ्न्यादिनिर्मातृभ्यः (च) (वः) (नमः) सत्करणम् (नमः) अन्नादिदानम् (निषादेभ्यः) ये वनपर्वतादिषु तिष्ठन्ति तेभ्यः (पुञ्जिष्ठेभ्यः) ये पुञ्जिषु वर्णेषु भाषासु वा तिष्ठन्ति तेभ्यः (च) (वः) (नमः) सत्करणम् (नमः) अन्नादिदानम् (श्वनिभ्यः) ये शुनो नयन्ति शिक्षयन्ति तेभ्यः (मृगयुभ्यः) य आत्मनो मृगान् कामयन्ते तेभ्यः (च) (वः) (नमः) सत्करणम्॥२७॥
Essence
विद्वांसो ये पदार्थविद्ययाऽपूर्वाणि शिल्पकृत्यानि साध्नुयुस्तान् पारितोषिकदानेन सत्कुर्युः। ये श्वादिपशुभ्योऽन्नादिदानेन परिपाल्य सुशिक्ष्योपयोजयेयुस्तान् सुखानि प्रापयेयुः॥२७॥
Subject
विद्वद्भिः के सत्कर्त्तव्या इत्याह॥
Anvaya
हे मनुष्याः! यथा वयं राजादयो वस्तक्षभ्यो नमो रथकारेभ्यो नमश्च, वः कुलालेभ्यो नमः कर्मारेभ्यो नमश्च, वो निषादेभ्यो नमः पुञ्जिष्ठेभ्यो नमश्च, वः श्वनिभ्यो नमो मृगयुभ्यो नमश्च दद्याम कुर्याम च तथा यूयमपि दत्त कुरुत च॥२७॥