Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 26

66 Mantra
16/26
Devata- रुद्रा देवताः Rishi- कुत्स ऋषिः Chhand- भुरिगतिजगती Swara- निषादः
Mantra with Swara
नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ऽअर॒थेभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑ सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ऽअर्भ॒केभ्य॑श्च वो॒ नमः॑॥२६॥

नमः॑। सेना॑भ्यः। से॒ना॒निभ्य॒ इति॑ सेना॒निऽभ्यः॑। च॒। वः॒। नमः॑। नमः॑। र॒थिभ्य॒ इति॑ र॒थिऽभ्यः॑। अ॒र॒थेभ्यः॑। च॒। वः॒। नमः॑। नमः॑। क्ष॒त्तृभ्य॒ इति॑ क्ष॒त्तृऽभ्यः॑। स॒ङ्ग्र॒हीतृभ्य॒ इति॑ सम्ऽग्रही॒तृभ्यः। च॒। वः॒। नमः॑। नमः॑। म॒हत्भ्यः॑। अ॒र्भ॒केभ्यः॑। च॒। वः॒। नमः॑ ॥२६ ॥

Mantra without Swara
नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्योऽअरतेभ्यश्च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमो महद्भ्योऽअर्भकेभ्यश्च वो नमः ॥

नमः। सेनाभ्यः। सेनानिभ्य इति सेनानिऽभ्यः। च। वः। नमः। नमः। रथिभ्य इति रथिऽभ्यः। अरथेभ्यः। च। वः। नमः। नमः। क्षत्तृभ्य इति क्षत्तृऽभ्यः। सङ्ग्रहीतृभ्य इति सम्ऽग्रहीतृभ्यः। च। वः। नमः। नमः। महत्भ्यः। अर्भकेभ्यः। च। वः। नमः॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) सत्कारम् (सेनाभ्यः) सिन्वन्ति बध्नन्ति शत्रून् याभिस्ताभ्यः (सेनानिभ्यः) ये सेनां नयन्ति तेभ्यो नायकेभ्यः प्रधानपुरुषेभ्यः, अत्र वर्णव्यत्ययेन ईकारस्य इकारः। (च) (वः) (नमः) अन्नम् (नमः) सत्करणम् (रथिभ्यः) प्रशस्ता रथा विद्यन्ते येषां तेभ्यः (अरथेभ्यः) अविद्यमाना रथा येषां तेभ्यः पदातिभ्यः (च) (वः) (नमः) सत्क्रियाम् (नमः) अन्नादिकम् (क्षत्तृभ्यः) शूद्रात् क्षत्रियायां जातेभ्यः (संग्रहीतृभ्यः) ये युद्धार्थास्सामग्रीः सम्यग् गृह्णन्ति तेभ्यः (च) (वः) (नमः) सत्करणम् (नमः) सुसंस्कृतान्नादिकम् (महद्भ्यः) महाशयेभ्यो विद्यावयोभ्यां वृद्धेभ्यः पूज्येभ्यः (अर्भकेभ्यः) कनिष्ठेभ्यः क्षुद्राशयेभ्यः शिक्षणीयेभ्यो विद्यार्थिभ्यः (च) (वः) (नमः) सत्करणम्॥२६॥
Essence
राजपुरुषैः सर्वान् भृत्यान् सत्कृत्य सुशिक्ष्यान्नादिना वर्धयित्वा धर्मेण राज्यं पालनीयम्॥२६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे राजप्रजानाः! यथा वयं सेनाभ्यो नमो वः सेनानिभ्यो नमश्च रथिभ्यो नमो वोऽरथेभ्यो नमश्च क्षत्तृभ्यो नमो वः संग्रहीतृभ्यो नमश्च महद्भ्यो नमो वोऽर्भकेभ्यो नमश्च सततं कुर्मो दद्मश्च, तथैव यूयमपि कुरुत दत्त च॥२६॥