Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 21

66 Mantra
16/21
Devata- रुद्रा देवताः Rishi- कुत्स ऋषिः Chhand- निचृदतिधृतिः Swara- षड्जः
Mantra with Swara
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ऽइषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒यिभ्यो॒ जिघा॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑॥२१॥

नमः॑। वञ्च॑ते। प॒रि॒वञ्च॑त॒ इति॑ परि॒ऽवञ्च॑ते। स्ता॒यू॒नाम्। पत॑ये। नमः॑। नमः॑। नि॒ष॒ङ्गिणे॑। इ॒षु॒धि॒मत॒ इती॑षुधि॒ऽमते॑। तस्क॑राणाम्। पत॑ये। नमः॑। नमः॑। सृ॒का॒यिभ्य॒ इति॑ सृका॒यिऽभ्यः॑। जिघा॑सद्भ्य॒ इति॒ जिघा॑सद्ऽभ्यः। मु॒ष्ण॒ताम्। पत॑ये। नमः॑। नमः॑। अ॒सि॒मद्भ्य॒ इत्य॑सि॒मत्ऽभ्यः॑। नक्त॑म्। चर॑द्भ्य॒ इति॒ चर॑त्ऽभ्यः। वि॒कृ॒न्ताना॒मिति॑ विऽकृ॒न्ताना॑म्। पत॑ये। नमः॑ ॥२१ ॥

Mantra without Swara
नमो वञ्चते परिवञ्चते स्तायूनाम्पतये नमो नमो निषङ्गिणऽइषुधिमते तस्कराणाम्पतये नमो नमः सृकायिभ्यो जिघाँसद्भ्यो मुष्णताम्पतये नमो नमो सिमद्भ्यो नक्तञ्चरद्भ्यो विकृन्तानाम्पतये नमः ॥

नमः। वञ्चते। परिवञ्चत इति परिऽवञ्चते। स्तायूनाम्। पतये। नमः। नमः। निषङ्गिणे। इषुधिमत इतीषुधिऽमते। तस्कराणाम्। पतये। नमः। नमः। सृकायिभ्य इति सृकायिऽभ्यः। जिघासद्भ्य इति जिघासद्ऽभ्यः। मुष्णताम्। पतये। नमः। नमः। असिमद्भ्य इत्यसिमत्ऽभ्यः। नक्तम्। चरद्भ्य इति चरत्ऽभ्यः। विकृन्तानामिति विऽकृन्तानाम्। पतये। नमः॥२१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) वज्रप्रहारः (वञ्चते) छलेन परपदार्थानां हर्त्रे (परिवञ्चते) सर्वतः कापट्येन वर्त्तमानाय (स्तायूनाम्) चौर्येण जीवताम् (पतये) स्वामिने (नमः) वज्रादिशस्त्रप्रहरणम् (नमः) अन्नम् (निषङ्गिणे) राज्यपालने नित्यं सज्जिताय (इषुधिमते) प्रशस्तेषुधिधर्त्रे (तस्कराणाम्) स्तेयकर्मकर्तॄणाम् (पतये) पातयिष्णवे (नमः) वज्रप्रहरणम् (नमः) (सृकायिभ्यः) सृकेन वज्रेण सज्जनानेतुं प्राप्तुं शीलमेषां तेभ्यः। सृक इति वज्रनामसु पठितम्॥ (निघं॰२।२०) (जिघांसद्भ्यः) हन्तुमिच्छद्भ्यः (मुष्णताम्) स्तेयकर्मकारिणाम् (पतये) दण्डेन निपातयित्रे (नमः) सत्करणम् (नमः) वज्रप्रहरणम् (असिमद्भ्यः) प्रशस्ता असयः खड्गानि विद्यन्ते येषां तेभ्यः (नक्तम्) रात्रौ (चरद्भ्यः) (विकृन्तानाम्) विविधोपायैर्ग्रन्थिं छित्त्वा परस्वापहर्त्तॄणाम् (पतये) विघातकाय (नमः) सत्कारः॥२१॥
Essence
राजजनैः कपटव्यवहारेण छलयतां दिवा रात्रौ चानर्थकारिणां निग्रहं कृत्वा धार्मिकाणां च पालनं सततं विधेयम्॥२१॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
राजपुरुषा वञ्चते परिवञ्चते नमः स्तायूनां पतये नमो निषङ्गिण इषुधिमते नमस्तस्कराणां पतये नमः सृकायिभ्यो जिघांसद्भ्यो नमो मुष्णतां पतये नमोऽसिमद्भ्यो नक्तं चरद्भ्यो नमो विकृन्तानां पतये नमोऽनुसंदधतु॥२१॥