Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 19

66 Mantra
16/19
Devata- रुद्रो देवता Rishi- कुत्स ऋषिः Chhand- विराडतिधृतिः Swara- षड्जः
Mantra with Swara
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ऽउ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमः॑॥१९॥

नमः॑। रोहि॑ताय। स्थ॒पत॑ये। वृ॒क्षाणा॑म्। पत॑ये। नमः॑। नमः॑। भु॒व॒न्तये॑। वा॒रि॒व॒स्कृ॒ताय॑। वा॒रि॒वः॒कृ॒तायेति॑ वारिवःऽकृ॒ताय॑। ओष॑धीनाम्। पत॑ये। नमः॑। नमः॑। म॒न्त्रिणे॑। वा॒णि॒जाय॑। कक्षा॑णाम्। पत॑ये। नमः॑। नमः॑। उ॒च्चैर्घो॑षा॒येत्यु॒च्चैःऽघो॑षाय। आ॒क्र॒न्दय॑त॒ इत्या॑ऽक्र॒न्दय॑ते। प॒त्ती॒नाम्। पत॑ये। नमः॑ ॥१९ ॥

Mantra without Swara
नमो रोहिताय स्थपतये वृक्षाणाम्पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम्पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम्पतये नमो नमऽउच्चौर्घाषायाक्रन्दयते पत्तीनाम्पतये नमो नमः कृत्स्नायतया ॥

नमः। रोहिताय। स्थपतये। वृक्षाणाम्। पतये। नमः। नमः। भुवन्तये। वारिवस्कृताय। वारिवःकृतायेति वारिवःऽकृताय। ओषधीनाम्। पतये। नमः। नमः। मन्त्रिणे। वाणिजाय। कक्षाणाम्। पतये। नमः। नमः। उच्चैर्घोषायेत्युच्चैःऽघोषाय। आक्रन्दयत इत्याऽक्रन्दयते। पत्तीनाम्। पतये। नमः॥१९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) अन्नम् (रोहिताय) वृद्धिकराय (स्थपतये) तिष्ठन्ति यस्मिन्निति स्थं तस्य पतये पालकाय (वृक्षाणाम्) आम्रादीनाम् (पतये) स्वामिने (नमः) अन्नम् (नमः) अन्नम् (भुवन्तये) यो भवत्याचारवांस्तस्मै (वारिवस्कृताय) वारिवस्सेवनं कृतं येन तस्मै, अत्र स्वार्थेऽण्। (ओषधीनाम्) सोमादीनाम् (पतये) पालकाय वैद्याय (नमः) अन्नम् (नमः) सत्कारः (मन्त्रिणे) विचारकर्त्रे राजपुरुषाय (वाणिजाय) वणिजां व्यवहारेषु कुशलाय (कक्षाणाम्) गृहप्रान्तावयवेषु स्थितानाम् (पतये) रक्षकाय (नमः) अन्नम् (नमः) सत्कारः (उच्चैर्घोषाय) उच्चैर्घोषो यस्य तस्मै (आक्रन्दयते) यो दुष्टानाक्रन्दयतेरोदयति तस्मै न्यायाधीशाय (पत्तीनाम्) सेनाङ्गानाम् (पतये) रक्षकाय सेनाध्यक्षाय (नमः) सत्कारः॥१९॥
Essence
मनुष्यैर्वनादिपालकेभ्योऽन्नादिकं दत्त्वा वृक्षौषध्याद्युन्नतिर्विधेया॥१९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
राजप्रजाजनै रोहिताय स्थपतये नमो वृक्षाणां पतये नमो भुवन्तये वारिवस्कृताय नम ओषधीनां पतये नमो मन्त्रिणे वाणिजाय नमः कक्षाणां पतये नम उच्चैर्घोषायाक्रन्दयते नमः पत्तीनां पतये नमश्च देयं कार्यं च॥१९॥