Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 18

66 Mantra
16/18
Devata- रुद्रा देवताः Rishi- कुत्स ऋषिः Chhand- निचृदष्टिः Swara- मध्यमः
Mantra with Swara
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नमः॑॥१८॥

नमः॑। ब॒भ्लु॒शाय॑। व्या॒धिने॑। अन्ना॑नाम्। पत॑ये। नमः॑। नमः॑। भ॒वस्य॑। हे॒त्यै। जग॑ताम्। पत॑ये। नमः॑। नमः॑। रु॒द्राय॑। आ॒त॒ता॒यिन॒ इत्या॑ततऽआ॒यिने॑। क्षेत्रा॑णाम्। पत॑ये। नमः॑। नमः॑। सू॒ताय॑। अह॑न्त्यै। वना॑नाम्। पत॑ये। नमः॑ ॥१८ ॥

Mantra without Swara
नमो बभ्लुशाय व्याधिनेन्नानां पतये नमो नमो भवस्य हेत्यै जगताम्पतये नमो नमो रुद्रायाततायिने क्षेत्राणाम्पतये नमो नमः सूतायाहन्त्यैवनानां पतये नमो नमो रोहिताय ॥

नमः। बभ्लुशाय। व्याधिने। अन्नानाम्। पतये। नमः। नमः। भवस्य। हेत्यै। जगताम्। पतये। नमः। नमः। रुद्राय। आततायिन इत्याततऽआयिने। क्षेत्राणाम्। पतये। नमः। नमः। सूताय। अहन्त्यै। वनानाम्। पतये। नमः॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) अन्नम् (बभ्लुशाय) यो बभ्लुषु राज्यधारकेषु शेते तस्मै (व्याधिने) रोगिणे (अन्नानाम्) गोधूमादीनाम् (पतये) पालकाय (नमः) सत्कारः (नमः) अन्नम् (भवस्य) संसारस्य (हेत्यै) वृद्ध्यै (जगताम्) जङ्गमानां मनुष्यादीनाम् (पतये) स्वामिने (नमः) सत्कारः (नमः) अन्नम् (रुद्राय) शत्रूणां रोदकाय (आततायिने) समन्तात् ततं विस्तृतं शत्रुदलमेतु शीलमस्य तस्मै (क्षेत्राणाम्) धान्योद्भवाधिकरणानाम् (पतये) पालकाय (नमः) अन्नम् (नमः) अन्नम् (सूताय) क्षत्रियाद् विप्रकन्यायां जाताय वीराय प्रेरकाय वा (अहन्त्यै) या राजपत्नी कञ्चन न हन्ति तस्यै (वनानाम्) जङ्गलानाम् (पतये) पालकाय (नमः) अन्नम्॥१८॥
Essence
येऽन्नादिना सर्वान् प्राणिनः सत्कुर्वन्ति, ते जगति प्रशंसिता भवन्ति॥१८॥
Subject
पुनस्तादृशमेव विषयमाह॥
Anvaya
राजपुरुषादिमनुष्यैर्बभ्लुशाय व्याधिने नमोऽन्नानां पतये नमो भवस्य हेत्यै नमो जगतां पतये नमो रुद्रायाततायिने नमः क्षेत्राणां पतये नमः सूतायाहन्त्यै नमो वनानां पतये नमो देयं कार्यं च॥१८॥