Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 17

66 Mantra
16/17
Devata- रुद्रो देवता Rishi- कुत्स ऋषिः Chhand- निचृदतिधृतिः Swara- षड्जः
Mantra with Swara
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑॥१७॥

नमः॑। हिर॑ण्यबाहव॒ इति॒ हिर॑ण्यऽबाहवे। से॒ना॒न्य᳖ इति॑ सेना॒ऽन्ये᳖। दि॒शाम्। च॒। पत॑ये। नमः॑। नमः॑। वृ॒क्षेभ्यः॑। हरि॑केशेभ्य॒ इति॒ हरि॑ऽकेशेभ्यः। प॒शू॒नाम्। पत॑ये। नमः॑। नमः॑। श॒ष्पिञ्ज॑राय। त्विषी॑मते। त्विषी॑मत॒ इति॒ त्विषी॑ऽमते। प॒थी॒नाम्। पत॑ये। नमः॑। नमः॑। हरि॑केशा॒येति॒ हरि॑ऽकेशाय। उ॒प॒वी॒तिन॒ इत्युप॑ऽवी॒तिने॑। पु॒ष्टाना॑म्। पत॑ये। नमः॑ ॥१७ ॥

Mantra without Swara
नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम्पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनाम्पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम्पतये नमो नमो बभ्लुशाय ॥

नमः। हिरण्यबाहव इति हिरण्यऽबाहवे। सेनान्य इति सेनाऽन्ये। दिशाम्। च। पतये। नमः। नमः। वृक्षेभ्यः। हरिकेशेभ्य इति हरिऽकेशेभ्यः। पशूनाम्। पतये। नमः। नमः। शष्पिञ्जराय। त्विषीमते। त्विषीमत इति त्विषीऽमते। पथीनाम्। पतये। नमः। नमः। हरिकेशायेति हरिऽकेशाय। उपवीतिन इत्युपऽवीतिने। पुष्टानाम्। पतये। नमः॥१७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) वज्रः (हिरण्यबाहवे) हिरण्यं ज्योतिरिव तीव्रतेजस्कौ बाहू यस्य तस्मै (सेनान्ये) यः सेनां नयति शिक्षां प्रापयति तस्मै (दिशाम्) सर्वासु दिक्षु स्थितानां राज्यप्रदेशानाम् (च) (पतये) पालकाय। अत्र षष्ठीयुक्तश्छन्दसि वा [अष्टा॰१.४.९] इति घिसंज्ञा। (नमः) अन्नादिकम् (नमः) वज्रादिशस्त्रसमूहः (वृक्षेभ्यः) आम्रादिभ्यः (हरिकेशेभ्यः) हरयो हरणशीलाः सूर्यरश्मयो येषु तेभ्यः (पशूनाम्) गवादीनाम् (पतये) रक्षकाय (नमः) सत्करणम् (नमः) (शष्पिञ्जराय) शडुत्प्लुतं पिञ्जरं बन्धनं येन तस्मै (त्विषीमते) बह्व्यस्त्विषयो न्यायदीप्तयो विद्यन्ते यस्य तस्मै। शरादीनां च [अष्टा॰६.३.१२०] इति दीर्घः। (पथीनाम्) मार्गे गन्तॄ᳖णाम् (पतये) पालकाय (नमः) सत्करणमन्नं च (नमः) अन्नादिकम् (हरिकेशाय) हरिता केशा यस्य तस्मै (उपवीतिने) प्रशस्तमुपवीतं यज्ञोपवीतं विद्यते यस्य तस्मै (पुष्टानाम्) अरोगाणाम् (पतये) रक्षकाय (नमः) सत्कारः॥१७॥
Essence
मनुष्यैः श्रेष्ठानां सत्कारेण बुभुक्षितानामन्नदानेन चक्रवर्तिराज्यशासनेन पशूनां पालनेन गन्तुकानां दस्युचोरादिभ्यो रक्षणेन यज्ञोपवीतधारणेन पुष्ट्या च सहानन्दितव्यम्॥१७॥
Subject
राजप्रजाजनैः किं कर्त्तव्यमित्युपदिश्यते॥
Anvaya
हे रुद्र सेनाधीश! हिरण्यबाहवे सेनान्ये तुभ्यं नमोऽस्तु, दिशां च पतये नमोऽस्तु, त्वं हरिकेशेभ्यो वृक्षेभ्यो नमो गृहाण, पशूनां पतये नमोऽस्तु, शष्पिञ्जराय त्विषीमते नमोऽस्तु, पथीनां पतये नमोऽस्तु, हरिकेशायोपवीतिने नमोऽस्तु, पुष्टानां पतये नमो भवतु॥१७॥