Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 10

66 Mantra
16/10
Devata- रुद्रो देवता Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगार्ष्युष्णिक् Swara- गान्धारः
Mantra with Swara
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ऽउ॒त। अने॑शन्नस्य॒ याऽइष॑वऽआ॒भुर॑स्य निषङ्ग॒धिः॥१०॥

विज्य॒मिति॒ विऽज्य॑म्। धनुः॑। क॒प॒र्द्दिनः॑। विश॑ल्य॒ इति॒ विऽश॑ल्यः। बाण॑वा॒निति॒ बाण॑ऽवान्। उ॒त। अने॑शन्। अ॒स्य॒। याः। इष॑वः। आ॒भुः। अ॒स्य॒। नि॒ष॒ङ्ग॒धिरिति॑ निषङ्ग॒ऽधिः ॥१० ॥

Mantra without Swara
विज्यन्धनुः कपर्दिनो विशल्यो वाणवाँऽउत । अनेशन्नस्य याऽइषव आभुरस्य निषङ्गधिः ॥

विज्यमिति विऽज्यम्। धनुः। कपर्द्दिनः। विशल्य इति विऽशल्यः। बाणवानिति बाणऽवान्। उत। अनेशन्। अस्य। याः। इषवः। आभुः। अस्य। निषङ्गधिरिति निषङ्गऽधिः॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विज्यम्) विगता ज्या यस्मात् तत् (धनुः) (कपर्द्दिनः) प्रशंसितो जटाजूटो विद्यते यस्य तस्य (विशल्यः) विगतानि शल्यानि यस्य सः (बाणवान्) बहवो बाणा विद्यन्ते यस्य सः (उत) यदि (अनेशन्) नश्येयुः। णश् अदर्शने, लुङि रूपम्। नशिमन्योरलिट्येत्वं वक्तव्यम् [अष्टा॰वा॰६.४.१२०] अनेन वार्तिकेनात्रैत्वम्। (अस्य) सेनापतेः (याः) (इषवः) बाणाः (आभुः) रिक्तः खड्गादिरहितः (अस्य) (निषङ्गधि) निषङ्गानि शस्त्रास्त्राणि धीयन्ते यस्मिन् सः॥१०॥
Essence
युयुत्सुना नरेण धनुर्ज्यादयो दृढा बहुबाणाश्च धार्याः सेनापत्यादिभिर्युध्यमानान् विलोक्य पुनश्च तेभ्यो बाणादीनि साधनानि देयानि॥१०॥
Subject
पुनस्तदेवाह॥
Anvaya
हे धनुर्वेदविदो जनाः! अस्य कपर्द्दिनः सेनापतेर्धनुर्विज्यं मा भूदयं विशल्य आभुर्मा भूत्। उतास्य शस्त्रास्त्रधारकस्य निषङ्गधिर्मृषा मा भूत्। बाणवांश्चायं भवतु। या अस्येषवोऽनेशन् ता अस्मै न वा दत्त॥१०॥