Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 16 / Mantra 1

66 Mantra
16/1
Devata- रुद्रो देवता Rishi- परमेष्ठी वा कुत्स ऋषिः Chhand- आर्षी गायत्री Swara- षड्जः
Mantra with Swara
नम॑स्ते रुद्र म॒न्यव॑ऽउ॒तो त॒ऽइष॑वे॒ नमः॑। बा॒हुभ्या॑मु॒त ते॒ नमः॑॥१॥

नमः॑। ते॒। रु॒द्र॒। म॒न्यवे॑। उ॒तोऽइत्यु॒तो। ते॒। इष॑वे। नमः॑। बा॒हु॒भ्या॒मिति॑ बा॒हुऽभ्या॑म्। उ॒त। ते॒। नमः॑ ॥१ ॥

Mantra without Swara
नमस्ते रुद्र मन्यवऽउतो तऽइषवे नमः । बाहुभ्यामुत ते नमः ॥

नमः। ते। रुद्र। मन्यवे। उतोऽइत्युतो। ते। इषवे। नमः। बाहुभ्यामिति बाहुऽभ्याम्। उत। ते। नमः॥१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नमः) वज्रम्। नम इति वज्रनामसु पठितम्॥ (निघं॰२।२०) (ते) तवोपरि (रुद्र) दुष्टानां शत्रुणां रोदयितः। कतमे ते रुद्रा इति दशेमे पुरुषे प्राणा एकादश आत्मा। एकादश रुद्राः कस्मादेते रुद्रा? यदस्मान् मर्त्याच्छरीरादुत्क्रामन्त्यथ रोदयन्ति यत्तद्रोदयन्ति तस्माद् रुद्राः॥ इति शतपथब्राह्मणे। रोदेर्णिलुक् च। [उणा॰२.२२] अनेनोणादिगणसूत्रेण रोदिधातो रक् प्रत्ययो णिलुक् च। (मन्यवे) क्रोधयुक्ताय वीराय (उतो) अपि (ते) तव (इषवे) इष्णात्यभीक्ष्णं हिनस्ति शत्रून् येन तस्मै (नमः) अन्नम्। नम इत्यन्ननामसु पठितम्॥ (निघं॰२।७) (बाहुभ्याम्) भुजाभ्याम् (उत) अपि (ते) तव (नमः) वज्रम्॥१॥
Essence
ये राज्यं चिकीर्षेयुस्ते बाहुबलं युद्धशिक्षाशस्त्रास्त्राणि च सम्पादयेयुः॥१॥
Subject
अथ राजधर्म उपदिश्यते॥
Anvaya
हे रुद्र! ते मन्यवे नमोऽस्तु। उतो इषवे ते नमोऽस्तु। उत ते बाहुभ्यां नमोऽस्तु॥१॥