Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 15 / Mantra 56

65 Mantra
15/56
Devata- अग्निर्देवता Rishi- परमेष्ठी ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआ रो॒हाथा॑ नो वर्धया र॒यिम्॥५६॥

अ॒यम्। ते॒। योनिः॑। ऋ॒त्वियः॑। यतः॑। जा॒तः। अरो॑चथाः। तम्। जा॒नन्। अ॒ग्ने॒। आ। रो॒ह॒। अथ॑। नः॒। व॒र्ध॒य॒। र॒यिम् ॥५६ ॥

Mantra without Swara
अयन्ते योनिरृत्वियो यतो जातोऽअरोचथाः । तञ्जानन्नग्नऽआरोहाथा नो वर्धया रयिम् ॥

अयम्। ते। योनिः। ऋत्वियः। यतः। जातः। अरोचथाः। तम्। जानन्। अग्ने। आ। रोह। अथ। नः। वर्धय। रयिम्॥५६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अयम्) (ते) तव (योनिः) गृहम् (ऋत्वियः) ऋतुः प्राप्तोऽस्य सः (यतः) यस्य विद्याध्ययनस्याध्यापनस्य च सकाशात् (जातः) जाता च (अरोचथाः) प्रदीप्येथाः (तम्) (जानन्) जानन्ति च (अग्ने) विद्वन् विदुषि! च (आ) (रोह) (अथ) आनन्तर्य्ये। निपातस्य च [अ॰६.३.१३६] इति दीर्घः (नः) अस्माकम् (वर्धय) अन्येषामपि॰ [अ॰६.३.१३७] इति दीर्घः (रयिम्) संपत्तिम्। [अयं मन्त्रः शत॰८.६.१.२४ व्याख्यातः]॥५६॥
Essence
विवाहे स्त्रीपुरुषाभ्यामियमपि द्वितीया प्रतिज्ञा कारयितव्या। येन ब्रह्मचर्य्येण यया विद्यया च युवां स्त्रीपुरुषौ कृतकृत्यौ भवथस्तत्तां च सदैव प्रचारयतम्। पुरुषार्थेन धनादिकं च वर्धयित्वैतत् सन्मार्गे वीतम्। इत्येतत् सर्वं हेमन्तस्य ऋतोर्व्याख्यानं समाप्तम्॥५६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अग्ने! योऽयं ते तव ऋत्वियो योनिरस्ति यतो जातो जाता त्वं चारोचथास्तं जानन् जानन्ति चारोहाथ, नो रयिं वर्धय॥५६॥