Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 15 / Mantra 5

65 Mantra
15/5
Devata- विद्वांसो देवता Rishi- परमेष्ठी ऋषिः Chhand- निचृदभिकृतिः Swara- ऋषभः
Mantra with Swara
आ॒च्छच्छन्दः॑ प्र॒च्छच्छन्दः॑ सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्तर॒ञ्छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्दः॑ स॒ꣳस्तुप् छन्दो॑ऽनु॒ष्टुप् छन्द॒ऽएव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॒ विष्प॑र्द्धा॒श्छन्दो॑ विशा॒लं छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छन्द॑स्त॒न्द्रं॒ छन्दो॑ऽअङ्का॒ङ्कं छन्दः॑॥५॥

आ॒च्छदित्या॒ऽछत्। छन्दः॑। प्र॒च्छदिति॑ प्र॒ऽछत्। छन्दः॑। सं॒यदिति॑ स॒म्ऽयत्। छन्दः॑। वि॒यदिति॑ वि॒ऽयत्। छन्दः॑। बृ॒हत्। छन्दः॑। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम्। छन्दः॑। नि॒का॒य इति॑ निऽका॒यः। छन्दः॑। वि॒व॒ध इति॑ विऽव॒धः। छन्दः॑। गिरः॑। छन्दः॑। भ्रजः॑। छन्दः॑। स॒ꣳऽस्तुबि॒ति॑ स॒म्ऽस्तुप्। छन्दः॑। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्य॑नु॒ऽस्तुप्। छन्दः॑। एवः॑। छन्दः॑। वरि॑वः। छन्दः॑। वयः॑। छन्दः॑। व॒य॒स्कृत्। व॒यः॒कृदिति॑ वयः॒ऽकृत्। छन्दः॑। विष्प॑र्द्धाः॒। विस्प॑र्द्धा॒ इति॒ विऽस्प॑र्द्धाः। छन्दः॑। वि॒शा॒लमिति॑ विऽशा॒लम्। छन्दः॑। छ॒दिः। छन्दः॑। दू॒रो॒ह॒णमिति॑ दुःऽरो॒ह॒णम्। छन्दः॑। त॒न्द्रम्। छन्दः॑। अ॒ङ्का॒ङ्कमित्य॑ङ्कऽअ॒ङ्कम्। छन्दः॑ ॥५ ॥

Mantra without Swara
आच्छच्छन्दः प्रच्छच्छन्दः सँयच्छन्दो वियच्छन्दो बृहच्छन्दो रथन्तरञ्छन्दो निकायश्छन्दो विवधश्छन्दो गिरश्छन्दः भ्रजश्छन्दः सँस्तुप्छन्दोनुष्टुप्छन्दऽएवश्छन्दो वरिवश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विष्पर्धाश्छन्दो विशालञ्छन्दश्छदिश्छन्दो दूरोहणञ्छन्दन्तन्द्रञ्छन्दऽअङ्काङ्कं छन्दः ॥

आच्छदित्याऽछत्। छन्दः। प्रच्छदिति प्रऽछत्। छन्दः। संयदिति सम्ऽयत्। छन्दः। वियदिति विऽयत्। छन्दः। बृहत्। छन्दः। रथन्तरमिति रथम्ऽतरम्। छन्दः। निकाय इति निऽकायः। छन्दः। विवध इति विऽवधः। छन्दः। गिरः। छन्दः। भ्रजः। छन्दः। सꣳऽस्तुबिति सम्ऽस्तुप्। छन्दः। अनुष्टुप्। अनुस्तुबित्यनुऽस्तुप्। छन्दः। एवः। छन्दः। वरिवः। छन्दः। वयः। छन्दः। वयस्कृत्। वयःकृदिति वयःऽकृत्। छन्दः। विष्पर्द्धाः। विस्पर्द्धा इति विऽस्पर्द्धाः। छन्दः। विशालमिति विऽशालम्। छन्दः। छदिः। छन्दः। दूरोहणमिति दुःऽरोहणम्। छन्दः। तन्द्रम्। छन्दः। अङ्काङ्कमित्यङ्कऽअङ्कम्। छन्दः॥५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आच्छत्) समन्तात् पापनिवारकं कर्म (छन्दः) प्रकाशनम् (प्रच्छत्) प्रयत्नेन दुष्टस्वभावदूरीकरणार्थं कर्म (छन्दः) उत्साहनम् (संयत्) संयमः (छन्दः) बलम् (वियत्) विविधैः प्रकारैर्यतते येन तत् (छन्दः) उत्साहः (बृहत्) महद्वर्धनम् (छन्दः) स्वातन्त्र्यम् (रथन्तरम्) यदस्मिन् लोके तारकं वस्त्वस्ति तत् (छन्दः) स्वीकरणम् (निकायः) निचिन्वन्ति उपसमादधते येन वायुना तत् (छन्दः) स्वीकरणम् (विवधः) विशेषेण बध्नन्ति पदार्था यस्मिंस्तदन्तरिक्षम् (छन्दः) प्रकाशनम् (गिरः) गीर्यते निगल्यते यदेनं तत् (छन्दः) स्वीकरणम् (भ्रजः) भ्राजते प्रकाशते योऽग्निः सः (छन्दः) स्वीकरणम् (संस्तुप्) सम्यक् स्तुभ्नाति शब्दार्थसम्बन्धान् यया सा वाक् (छन्दः) आह्लादकारि (अनुष्टुप्) श्रुत्वा पश्चात् स्तुभ्नाति जानाति शास्त्राणि यया मननक्रियया सा (छन्दः) उपदेशः (एवः) प्रापणम् (छन्दः) प्रयतनम् (वरिवः) विद्वत्परिचरणम् (छन्दः) स्वीकरणम् (वयः) जीवनम् (छन्दः) स्वाधीनम् (वयस्कृत्) यद्वयस्करोति तज्जीवनसाधनम् (छन्दः) स्वीकरणम् (विष्पर्द्धाः) विशेषेण यः स्पर्ध्यते सः (छन्दः) प्रदीपनम् (विशालम्) विस्तीर्णं कर्म (छन्दः) परिग्रहणम् (छदिः) विघ्नापवारणम् (छन्दः) सुखावहम् (दूरोहणम्) दुःखेन रोढुमर्हम् (छन्दः) ऊर्जनम् (तन्द्रम्) स्वतन्त्रताकरणम् (छन्दः) प्रकाशनम् (अङ्काङ्कम्) गणितविद्या (छन्दः) संस्थापनम्॥५॥
Essence
मनुष्यैः पुरुषार्थेन पारतन्त्र्यहानिः स्वातन्त्र्यस्वीकरणं सततं विधेयम्॥५॥
Subject
अथ मनुष्यैः प्रयत्नेन स्वातन्त्र्यं विधेयमित्याह॥
Anvaya
मनुष्यैराच्छच्छन्दः प्रच्छच्छन्दः संयच्छन्दो वियच्छन्दो बृहच्छन्दो रथन्तरं छन्दो निकायश्छन्दो विवधश्छन्दो गिरश्छन्दो भ्रजश्छन्दः संस्तुप्छन्दोऽनुष्टुप् छन्दः एवश्छन्दो वरिवश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विष्पर्द्धाश्छन्दो विशालं छन्दश्छदिश्छन्दो दूरोहणं छन्दस्तन्द्रं छन्दोऽङ्काङ्कं छन्दः स्वीकृत्य प्रचार्य प्रयतितव्यम्॥५॥