Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 15 / Mantra 45

65 Mantra
15/45
Devata- अग्निर्देवता Rishi- परमेष्ठी ऋषिः Chhand- भुरिगार्षी गायत्री Swara- षड्जः
Mantra with Swara
अधा॒ ह्यग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः। र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑॥४५॥

अध॑। हि। अ॒ग्ने॒। क्रतोः॑। भ॒द्रस्य॑। दक्ष॑स्य। सा॒धोः। र॒थीः। ऋ॒तस्य॑। बृ॒ह॒तः। ब॒भूथ॑ ॥४५ ॥

Mantra without Swara
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीरृतस्य बृहतो बभूथ ॥

अध। हि। अग्ने। क्रतोः। भद्रस्य। दक्षस्य। साधोः। रथीः। ऋतस्य। बृहतः। बभूथ॥४५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अध) अथ मङ्गले। अत्र निपातस्य निपातस्य च [अ॰६.३.१३६] इति दीर्घः। वर्णव्यत्ययेन थस्य धश्च (हि) खलु (अग्ने) विद्वन् (क्रतोः) प्रज्ञायाः (भद्रस्य) आनन्दकरस्य (दक्षस्य) शरीरात्मबलयुक्तस्य (साधोः) सन्मार्गे वर्त्तमानस्य (रथीः) प्रशस्ता रथा रमणसाधनानि यानानि विद्यन्ते यस्य सः (ऋतस्य) प्राप्तसत्यस्य (बृहतः) महाविषयस्य (बभूथ) भवेः॥४५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा शास्त्रयोगजां धियं प्राप्य विद्वांसो वर्धन्ते तथैवाध्येतृभिरपि वर्धितव्यम्॥४५॥
Subject
पुनः स कीदृशः स्यादित्याह॥
Anvaya
हे अग्ने! यथा त्वं भद्रस्य दक्षस्य साधोर्ऋतस्य बृहतः क्रतोः सकाशाद् रथीर्बभूथ तथाऽध हि वयमपि भवेम॥४५॥