Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 15 / Mantra 4

65 Mantra
15/4
Devata- विद्वांसो देवता Rishi- परमेष्ठी ऋषिः Chhand- भुरिगाकृतिः Swara- पञ्चमः
Mantra with Swara
एव॒श्छन्दो॒ वरि॑व॒श्छन्दः॑ श॒म्भूश्छन्दः॑ परि॒भूश्छन्द॑ऽआ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्दः॒॑ सिन्धु॒श्छन्दः॑ समु॒द्रश्छन्दः॑ सरिरं॒ छन्दः॑ क॒कुप् छन्द॑स्त्रिक॒कुप् छन्दः॑ का॒व्यं छन्दो॑ऽअङ्कु॒पं छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दः॑ प॒दप॑ङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः क्षु॒रश्छन्दो॒ भ्रज॒श्छन्दः॑॥४॥

एवः॑। छन्दः॑। वरि॑वः। छन्दः॑। श॒म्भूरिति॑ श॒म्ऽभूः। छन्दः॑। प॒रि॒भूरिति॑ परि॒ऽभूः। छन्दः॑। आ॒च्छदित्या॒ऽच्छत्। छन्दः॑। मनः॑। छन्दः॑। व्यचः॑। छन्दः॑। सिन्धुः॑। छन्दः॑। स॒मु॒द्रः। छन्दः॑। स॒रि॒रम्। छन्दः॑। क॒कुप्। छन्दः॑। त्रि॒क॒कुबिति॑ त्रिऽक॒कुप्। छन्दः॑। का॒व्यम्। छन्दः॑। अ॒ङकु॒पम्। छन्दः॑। अ॒क्षर॑पङ्क्ति॒रित्य॒क्षर॑ऽपङ्क्तिः। छन्दः॑। प॒दप॑ङ्क्तिरिति॑ प॒दऽप॑ङ्क्तिः। छन्दः॑। वि॒ष्टा॒रप॑ङ्क्तिः। वि॒स्ता॒रप॑ङ्क्ति॒रिति॑ विस्ता॒रऽप॑ङ्क्तिः। छन्दः॑। क्षु॒रः। छन्दः॑। भ्रजः॑। छन्दः॑ ॥४ ॥

Mantra without Swara
एवश्छन्दो वरिवश्छन्दः शम्भूश्छन्दः परिभूश्छन्दऽआच्छच्छन्दो मनश्छन्दो व्यचश्छन्दः सिन्धुश्छन्दः समुद्रश्छन्दः सरिरञ्छन्दः ककुप्छन्दस्त्रिककुप्छन्दः काव्यञ्छन्दोऽअङ्कुपञ्छन्दोक्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्दः क्षुरो भ्राजश्छन्दऽआच्छच्छन्दः प्रच्छच्छन्दः ॥

एवः। छन्दः। वरिवः। छन्दः। शम्भूरिति शम्ऽभूः। छन्दः। परिभूरिति परिऽभूः। छन्दः। आच्छदित्याऽच्छत्। छन्दः। मनः। छन्दः। व्यचः। छन्दः। सिन्धुः। छन्दः। समुद्रः। छन्दः। सरिरम्। छन्दः। ककुप्। छन्दः। त्रिककुबिति त्रिऽककुप्। छन्दः। काव्यम्। छन्दः। अङकुपम्। छन्दः। अक्षरपङ्क्तिरित्यक्षरऽपङ्क्तिः। छन्दः। पदपङ्क्तिरिति पदऽपङ्क्तिः। छन्दः। विष्टारपङ्क्तिः। विस्तारपङ्क्तिरिति विस्तारऽपङ्क्तिः। छन्दः। क्षुरः। छन्दः। भ्रजः। छन्दः॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एवः) ज्ञानम् (छन्दः) आनन्दम् (वरिवः) सत्यसेवनम् (छन्दः) सुखप्रदम् (शम्भूः) सुखं भावुकः (छन्दः) आह्लादकारी व्यवहारः (परिभूः) सर्वतः पुरुषार्थी (छन्दः) सत्यप्रदीपकः (आच्छत्) दोषापवारणम् (छन्दः) ऊर्जनम् (मनः) संकल्पो विकल्पः (छन्दः) प्रकाशकरम् (व्यचः) शुभगुणव्याप्तिः (छन्दः) आनन्दकारि (सिन्धुः) नदीव चलनम् (छन्दः) (समुद्रः) सागर इव गाम्भीर्य्यम् (छन्दः) अर्थकरम् (सरिरम्) जलमिव सरलता कोमलता (छन्दः) जलमिव शान्तिः (ककुप्) दिगिव यशः (छन्दः) प्रतिष्ठाप्रदम् (त्रिककुप्) त्रीणि कानि सुखानि स्कुभ्नाति येन कर्मणा तत्। अत्र छान्दसो वर्णलोप इति सलोपः (छन्दः) आनन्दकरम् (काव्यम्) कविभिर्निर्मितम् (छन्दः) प्रकाशकम् (अङ्कुपम्) अङ्कूनि कुटिलानि गमनानि पाति रक्षति तज्जलम् (छन्दः) तृप्तिकरं कर्म (अक्षरपङ्क्तिः) असौ च लोकः (छन्दः) आनन्दकरः (पदपङ्क्तिः) अयं लोकः (छन्दः) सुखसाधकः (विष्टारपङ्क्तिः) सर्वा दिशः (छन्दः) सुखसाधिकाः (क्षुरः) क्षुर इव छेदक आदित्यः (छन्दः) विज्ञानम् (भ्रजः) दीप्तम्। अत्र वर्णव्यत्ययेन ह्रस्वत्वम् (छन्दः) स्वच्छन्दानन्दकरः॥४॥
Essence
ये मनुष्या धर्म्यकर्मपुरुषार्थानुष्ठानेन प्रिया भवन्ति ते सर्वेभ्यः सृष्टिस्थपदार्थेभ्यः सुखानि संग्रहीतुं शक्नुवन्ति॥४॥
Subject
मनुष्याः प्रयत्नेन साधनैः सुखानि वर्द्धयन्त्वित्याह॥
Anvaya
हे मनुष्याः! यूयं परमप्रयत्नेनैवश्छन्दो वरिवश्छन्दः शम्भूश्छन्दः परिभूश्छन्द आच्छच्छन्दो मनश्छन्दो व्यचश्छन्दः सिन्धुश्छन्दः समुद्रश्छन्दः सरिरं छन्दः ककुप् छन्दस्त्रिककुप्छन्दः काव्यं छन्दोऽङ्कुपं छन्दोऽक्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्दः क्षुरश्छन्दो भ्रजश्छन्दः सुखाय साध्नुत॥४॥