Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 15 / Mantra 32

65 Mantra
15/32
Devata- अग्निर्देवता Rishi- परमेष्ठी ऋषिः Chhand- विराड् बृहती Swara- मध्यमः
Mantra with Swara
ए॒ना वो॑ऽअ॒ग्निं नम॑सो॒र्जो नपा॑त॒माहु॑वे। प्रि॒यं चेति॑ष्ठमर॒तिꣳस्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म्॥३२॥

ए॒ना। वः॒। अ॒ग्निम्। नम॑सा। ऊ॒र्जः। नपा॑तम्। आ। हु॒वे॒। प्रि॒यम्। चेति॑ष्ठम्। अ॒र॒तिम्। स्व॒ध्व॒रमिति॑ सुऽअ॒ध्व॒रम्। विश्व॑स्य। दू॒तम्। अ॒मृत॑म् ॥३२ ॥

Mantra without Swara
एना वोऽअग्निन्नमसोर्जा नपातमा हुवे । प्रियञ्चेतिष्ठमरतिँ स्वध्वरँ विश्वस्य दूतममृतम् ॥

एना। वः। अग्निम्। नमसा। ऊर्जः। नपातम्। आ। हुवे। प्रियम्। चेतिष्ठम्। अरतिम्। स्वध्वरमिति सुऽअध्वरम्। विश्वस्य। दूतम्। अमृतम्॥३२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एना) एनेन पूर्वोक्तेन। अत्राकारादेशः (वः) युष्मभ्यम् (अग्निम्) (नमसा) ग्राह्येणान्नेन (ऊर्जः) पराक्रमान् (नपातम्) अपतनशीलम् (आ) (हुवे) आह्वये (प्रियम्) प्रीत्युत्पादकम् (चेतिष्ठम्) अतिशयेन चेतयितारं संज्ञापकम् (अरतिम्) नास्ति रतिश्चैतन्यमस्ंिमस्तम् (स्वध्वरम्) सुष्ठ्वध्वरा अहिंसनीया व्यवहारा यस्मात्तम् (विश्वस्य) समग्रस्य जगतः (दूतम्) सर्वत्राभिगन्तारं विद्युतम् (अमृतम्) कारणरूपेण नित्यम्॥३२॥
Essence
हे मनुष्याः! वयं युष्मदर्थं या अग्न्यादिविद्याः प्रकटयेम, ता यूयं स्वीकुरुत॥३२॥
Subject
पुनः स कीदृश इत्याह॥
Anvaya
हे मनुष्याः! यथाऽहं वो युष्मभ्यमेना नमसा नपातं प्रियं चेतिष्ठं स्वध्वरमरतिममृतं विश्वस्य दूतमग्निमूर्जश्चाहुवे तथा यूयं मह्यं जुहुत॥३२॥