Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 15 / Mantra 28

65 Mantra
15/28
Devata- अग्निर्देवता Rishi- परमेष्ठी ऋषिः Chhand- विराडार्षी जगती Swara- निषादः
Mantra with Swara
त्वाम॑ग्ने॒ऽअङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने। स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत् त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः॥२८॥

त्वाम्। अ॒ग्ने॒। अङ्गि॑रसः। गुहा॑। हि॒तम्। अनु॑। अ॒वि॒न्द॒न्। शि॒श्रि॒या॒णम्। व॑नेवन॒ इति॒ वने॑ऽवने। सः। जा॒य॒से॒। म॒थ्यमा॑नः। सहः॑। म॒हत्। त्वाम्। आ॒हुः॒। सह॑सः। पु॒त्रम्। अ॒ङ्गि॒रः॒ ॥२८ ॥

Mantra without Swara
त्वामग्नेऽअङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणँवनेवने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥

त्वाम्। अग्ने। अङ्गिरसः। गुहा। हितम्। अनु। अविन्दन्। शिश्रियाणम्। वनेवन इति वनेऽवने। सः। जायसे। मथ्यमानः। सहः। महत्। त्वाम्। आहुः। सहसः। पुत्रम्। अङ्गिरः॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वाम्) (अग्ने) विद्वन्! (अङ्गिरसः) विद्वांसः (गुहा) गुहायां बुद्धौ। अत्र सुपां सुलुग्॰ [अ॰७.१.३९] इति ङेर्लुक् (हितम्) हितकारिणम् (अनु) (अविन्दन्) प्राप्नुयुः (शिश्रियाणम्) श्रयन्तम् (वनेवने) रश्मौ रश्मौ पदार्थे पदार्थे वा (सः) (जायसे) (मथ्यमानः) संघृष्यमाणः (सहः) बलम् (महत्) (त्वाम्) तम् (आहुः) कथयन्ति (सहसः) बलवतो वायोः (पुत्रम्) उत्पन्नम् (अङ्गिरः) प्राणवत् प्रिय॥२८॥
Essence
द्विविधोऽग्निर्मानसो बाह्यश्चास्ति तयोराभ्यन्तरं युक्ताभ्यामाहारविहाराभ्यां बाह्यं मन्थनादिभ्यः सर्वे विद्वांसः सेवन्ताम्। तथेतरे भजन्तु॥२८॥
Subject
पुनः स कीदृश इत्याह॥
Anvaya
हेऽङ्गिरोऽग्ने! त्वं स मथ्यमानोऽग्निरिव विद्यया जायसे, यथा महत्सहो युक्तं सहसस्पुत्रं वनेवने शिश्रियाणं गुहा हितं त्वामाहुरङ्गिरसोऽन्वविन्दंस्तथा त्वामहं बोधयामि॥२८॥