Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 15 / Mantra 23

65 Mantra
15/23
Devata- अग्निर्देवता Rishi- परमेष्ठी ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑। दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म्॥२३॥

भुवः॑। य॒ज्ञस्य॑। रज॑सः। च॒। ने॒ता। यत्र॑। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। सच॑से। शि॒वाभिः॑। दि॒वि। मू॒र्धा॑नम्। द॒धि॒षे॒। स्व॒र्षाम्। स्वः॒सामिति॑ स्वः॒ऽसाम्। जि॒ह्वाम्। अ॒ग्ने॒। च॒कृ॒षे॒। ह॒व्य॒वाह॒मिति॑ हव्य॒ऽवाह॑म् ॥२३ ॥

Mantra without Swara
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानन्दधिषे स्वर्षाञ्जिह्वामग्ने चकृषे हव्यवाहम् ॥

भुवः। यज्ञस्य। रजसः। च। नेता। यत्र। नियुद्भिरिति नियुत्ऽभिः। सचसे। शिवाभिः। दिवि। मूर्धानम्। दधिषे। स्वर्षाम्। स्वःसामिति स्वःऽसाम्। जिह्वाम्। अग्ने। चकृषे। हव्यवाहमिति हव्यऽवाहम्॥२३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(भुवः) भवतीति तस्य (यज्ञस्य) संगतस्य कार्यसाधकस्य व्यवहारस्य (रजसः) लोकसमूहस्य (च) (नेता) नयनकर्त्ता (यत्र) अत्र ऋचितुनु॰ इति दीर्घः (नियुद्भिः) मिश्रिकामिश्रिकाभिः क्रियाभिः (सचसे) युनक्षि (शिवाभिः) मंगलकारिणीभिः (दिवि) द्योतनात्मके स्वस्वरूपे (मूर्द्धानम्) मूर्द्धेव वर्त्तमानं सूर्य्यम् (दधिषे) धरसि (स्वर्षाम्) स्वः सुखं सनोति ददाति यया ताम् (जिह्वाम्) वाचम्। जिह्वेति वाङ्ना॰॥ (निघं॰१।११) (अग्ने) विद्वन् (चकृषे) करोति (हव्यवाहम्) यो हव्यान् दातुमादातुं च योग्यान् रसान् वहति तम्॥२३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथाग्निरीश्वरेण नियुक्तः सन् सर्वस्य जगतः सुखकारी वर्त्तते, तथैव विद्याग्राहका अध्यापकाः सर्वेषां जनानां सुखकारिणः सन्तीति ज्ञेयम्॥२३॥
Subject
पुनः स कीदृशः स्यादित्याह॥
Anvaya
हे अग्ने! यथाऽयमग्निर्नियुद्भिः शिवाभिः सह वर्त्तमानः भुवो यज्ञस्य रजसश्च नेता सन् सचते यत्र दिवि मूर्द्धानं दधाति हव्यवाहं स्वर्षां जिह्वां चकृषे तथा तत्र त्वं दिवि सचसे विद्यां दधिषे॥२३॥