Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 14 / Mantra 9

31 Mantra
14/9
Devata- प्रजापत्यादयो देवताः Rishi- विश्वेदेवा ऋषयः Chhand- निचृद्ब्राह्मी पङ्क्तिः,शक्वरी Swara- पञ्चमः, धैवतः
Mantra with Swara
मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छन्दः॑ क्ष॒त्रं वयो॒ मय॑न्दं॒ छन्दो॑ विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दो॑ ब॒स्तो वयो॑ विब॒लं छन्दो॒ वृष्णि॒र्वयो॑ विशा॒लं छन्दः॒ पु॑रुषो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्दः॑ सि॒ꣳहो वय॑श्छ॒दिश्छन्दः॑ पष्ठ॒वाड् वयो॑ बृह॒ती छन्द॑ऽ उ॒क्षा वयः॑ क॒कुप् छन्द॑ऽ ऋष॒भो वयः॑ स॒तोबृ॑ह॒ती छन्दः॑॥९॥

मू॒र्धा। वयः॑। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। छन्दः॑। क्ष॒त्रम्। वयः॑। मय॑न्दम्। छन्दः॑। वि॒ष्ट॒म्भः। वयः॑। अधि॑पति॒रित्यधि॑ऽपतिः। छन्दः॑। वि॒श्वक॒र्म्मेति॑ वि॒श्वऽक॑र्म्मा। वयः॑। प॒र॒मे॒ष्ठी। प॒र॒मे॒स्थीति॑ परमे॒ऽस्थी। छन्दः॑। ब॒स्तः। वयः॑। वि॒ब॒लमिति॑ विऽब॒लम्। छन्दः॑। वृष्णिः॑। वयः॑। वि॒शा॒लमिति॑ विऽशा॒लम्। छन्दः॑। पुरु॑षः। वयः॑। त॒न्द्रम्। छन्दः॑। व्या॒घ्रः। वयः॑। अना॑धृष्टम्। छन्दः॑। सि॒ꣳहः। वयः॑। छ॒दिः। छन्दः॑। प॒ष्ठ॒वाडिति॑ पष्ठ॒ऽवाट्। वयः॑। बृ॒ह॒ती। छन्दः॑। उ॒क्षा। वयः॑। क॒कुप्। छन्दः॑। ऋ॒ष॒भः। वयः॑। स॒तोबृ॑ह॒तीति॑ स॒तःऽबृ॑हती। छन्दः॑ ॥९ ॥

Mantra without Swara
मूर्धा वयः प्रजापतिश्छन्दः क्षत्रँवयो मयन्दञ्छन्दो विष्टम्भो वयोधिपतिश्छन्दो विश्वकर्मा वयः परमेष्ठी छन्दो बस्तो वयो विवलञ्छन्दो वृष्णिर्वयो विशालञ्छन्दः पुरुषो वयस्तन्द्रञ्छन्दो व्याघ्रो वयो नाधृष्टञ्छन्दः । सिँहो वयश्छदिश्छन्दः पष्ठवाड्वयो बृहती छन्दऽउक्षा वयः ककुप्छन्दऽऋषभो वयः सतोबृहती छन्दोनड्वान्वयः ॥

मूर्धा। वयः। प्रजापतिरिति प्रजाऽपतिः। छन्दः। क्षत्रम्। वयः। मयन्दम्। छन्दः। विष्टम्भः। वयः। अधिपतिरित्यधिऽपतिः। छन्दः। विश्वकर्म्मेति विश्वऽकर्म्मा। वयः। परमेष्ठी। परमेस्थीति परमेऽस्थी। छन्दः। बस्तः। वयः। विबलमिति विऽबलम्। छन्दः। वृष्णिः। वयः। विशालमिति विऽशालम्। छन्दः। पुरुषः। वयः। तन्द्रम्। छन्दः। व्याघ्रः। वयः। अनाधृष्टम्। छन्दः। सिꣳहः। वयः। छदिः। छन्दः। पष्ठवाडिति पष्ठऽवाट्। वयः। बृहती। छन्दः। उक्षा। वयः। ककुप्। छन्दः। ऋषभः। वयः। सतोबृहतीति सतःऽबृहती। छन्दः॥९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मूर्धा) मूर्धावदुत्तमं ब्राह्मणकुलम् (वयः) कमनीयम् (प्रजापतिः) प्रजापालकः (छन्दः) विद्याधर्मशमादिकर्म (क्षत्रम्) क्षत्रियकुलम् (वयः) न्यायविनयपराक्रमव्याप्तम् (मयन्दम्) यन्मयं सुखं ददाति तत् (छन्दः) बलयुक्तम् (विष्टम्भः) विशो वैश्यस्य विष्टम्भो रक्षणं येन (वयः) प्रजनकः (अधिपतिः) अधिष्ठाता (छन्दः) स्वाधीनः (विश्वकर्मा) अखिलोत्तमकर्मकर्ता राजा (वयः) कमिता (परमेष्ठी) सर्वेषां स्वामी (छन्दः) स्वाधीनः (वस्तः) व्यवहारैराच्छादितो युक्तः (वयः) विविधव्यवहारव्यापी (विबलम्) विविधं बलं यस्मात् (छन्दः) (वृष्णिः) सुखसेचकः (वयः) सुखप्रापकम् (विशालम्) विस्तीर्णम् (छन्दः) स्वाच्छन्द्यम् (पुरुषः) पुरुषार्थयुक्तः (वयः) कमनीयं कर्म्म (तन्द्रम्) कुटुम्बधारणम्। अत्र तत्रि कुटुम्बधारण इत्यस्मादच्, वर्णव्यत्ययेन तस्य दः (छन्दः) बलम् (व्याघ्रः) यो विविधान् समन्ताज्जिघ्रति (वयः) कमनीयम् (अनाधृष्टम्) धार्ष्ट्यम् (छन्दः) बलम् (सिंहः) यो हिनस्ति पश्वादीन् सः (वयः) पराक्रमम् (छदिः) अपवारणम् (छन्दः) प्रदीपनम् (पष्ठवाट्) यः पष्ठेन पृष्ठेन वहत्युष्ट्रादिः। वर्णव्यत्ययेन ऋकारस्यात्राकारादेशः (वयः) बलवान् (बृहती) महत्त्वम् (छन्दः) पराक्रमम् (उक्षा) सेचको वृषभः (वयः) बलिष्ठः (ककुप्) दिशः (छन्दः) आनन्दम् (ऋषभः) गतिमान् पशुः (वयः) बलिष्ठः (सतोबृहती) (छन्दः) स्वातन्त्र्यम्। [अयं मन्त्रः शत॰८.२.४.१-८ व्याख्यातः]॥९॥
Essence
अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। एरयेति पूर्वस्मान्मन्त्रादनुवर्त्तते। स्त्रीपुरुषैर्ब्राह्मणादिवर्णान् स्वच्छन्दान् संपाद्य वेदादीन् प्रचार्य्यालस्यादिकं त्यक्त्वा शत्रून्निवार्य्य महद् बलं सदा वर्द्धनीयम्॥९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे स्त्रि पुरुष वा! मूर्धा प्रजापतिरिव त्वं वयो मयन्दं छन्दः क्षत्रमेरय, विष्टम्भोऽधिपतिरिव त्वं वयश्छन्द एरय, विश्वकर्मा परमेष्ठीव त्वं वयश्छन्द एरय, वस्त इव त्वं वयो विबलं छन्द एरय, वृष्णिरिव त्वं विशालं वयश्छन्द एरय। पुरुष इव त्वं वयस्तन्द्रं छन्द एरय, व्याघ्र इव त्वं वयोनाधृष्ट छन्द एरय, सिंह इव त्वं वयश्छदिश्छन्द एरय, पष्ठवाडिव त्वं बृहती वयश्छन्द एरय, उक्षेव त्वं वयः ककुप्छन्द एरय, ऋषभ इव त्वं वयः सतोबृहती छन्द एरय प्रेरय॥९॥