Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 14 / Mantra 7

31 Mantra
14/7
Devata- वस्वादयो मन्त्रोक्ता देवताः Rishi- विश्वेदेवा ऋषयः Chhand- भुरिक्पङ्क्तिः,स्वराट्पक्तिः,निचृदाकृतुश् Swara- धैवतः,पञ्चमः
Mantra with Swara
स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जू रु॒द्रैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वि॒श्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑॥७॥

स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। रु॒द्रैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। आ॒दि॒त्यैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। विश्वैः॑। दे॒वैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒ ॥७ ॥

Mantra without Swara
सजूरृतुभिः सजूर्विधाभिः सजूर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजूर्वसुभिः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजू रुद्रैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजूरादित्यैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजूर्विश्वैर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा ॥

सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। देवैः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू। सादयताम्। इह। त्वा। सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। वसुभिरिति वसुऽभिः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू सादयताम्। इह। त्वा। सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। रुद्रैः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू। सादयताम्। इह। त्वा। सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। आदित्यैः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू। सादयताम्। इह। त्वा। सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। विश्वैः। देवैः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू। सादयताम्। इह। त्वा॥७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सजूः) यः समानं प्रीणाति सेवते वा (ऋतुभिः) वसन्तादिभिश्च सह (सजूः) (विधाभिः) अद्भिः (सजूः) (देवैः) दिव्यैर्गुणैः (सजूः) (देवैः) दिव्यसुखप्रदैः (वयोनाधैः) वयांसि जीवनादीनि गायत्र्यादिछन्दांसि वा नह्यन्ति यैः प्राणैस्तैः (अग्नये) पावकाय (त्वा) त्वाम् (वैश्वानराय) अखिलानां पदार्थानां नयनाय प्रापणाय (अश्विना) (अध्वर्यू) (सादयताम्) (इह) (त्वा) त्वां स्त्रियं पुरुषं वा (सजूः) (ऋतुभिः) (सजूः) (विधाभिः) (सजूः) (वसुभिः) अग्न्यादिभिरष्टभिः (सजूः) (देवैः) दिव्यैः (वयोनाधैः) वयांसि विज्ञानानि नह्यन्ति यैर्विद्वद्भिः (अग्नये) विज्ञानाय (त्वा) (वैश्वानराय) विश्वस्य सर्वस्य जगतो नायकाय (अश्विना) (अध्वर्यू) (सादयताम्) (इह) (त्वा) (सजूः) (ऋतुभिः) (सजूः) (विधाभिः) विविधानि वस्तूनि दधति याभिः प्राणचेष्टाभिस्ताभिः (सजूः) (रुद्रैः) प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जयजीवैः (सजूः) (देवैः) विद्वद्भिः (वयोनाधैः) वेदादिशास्त्रप्रज्ञापनप्रबन्धकैः (अग्नये) शास्त्रविज्ञानाय (त्वा) (वैश्वानराय) विश्वेषां नराणामिदं सुखसाधकं तस्मै (अश्विना) (अध्वर्यू) (सादयताम्) (इह) (त्वा) (सजूः) (ऋतुभिः) सहचरितैः सुखैः (सजूः) (विधाभिः) विविधाभिः सत्यक्रियाधारिकाभिः क्रियाभिः (सजूः) (आदित्यैः) संवत्सरस्य द्वादशमासैः (सजूः) (देवैः) पूर्णविद्यैः (वयोनाधैः) पूर्णविद्याविज्ञानप्रचारप्रबन्धकैः (अग्नये) पूर्णाय विज्ञानाय (त्वा) (वैश्वानराय) विश्वेषां नराणामिदं पूर्णसुखसाधनं तस्मै (अश्विना) (अध्वर्यू) (सादयताम्) (इह) (त्वा) (सजूः) (ऋतुभिः) सर्वैः कालावयवैः (सजूः) (विधाभिः) समस्ताभिः सुखव्यापिकाभिः (सजूः) (विश्वैः) समस्तैः (देवैः) परोपकाराय सत्यासत्यविज्ञापयितृभिः (सजूः) (देवैः) (वयोनाधैः) ये वयः कामयमानं जीवनं नह्यन्ति तैः (अग्नये) सुशिक्षाप्रकाशाय (त्वा) (वैश्वानराय) विश्वेषां नराणामिदं हितं तस्मै (अश्विना) (अध्वर्यू) (सादयताम्) (इह) (त्वा)। [अयं मन्त्रः शत॰८.२.२.८ व्याख्यातः]॥७॥
Essence
अस्मिन् जगति मनुष्यजन्म प्राप्य स्त्रियो विदुष्यः पुरुषा विद्वांसश्च भूत्वा येषु ब्रह्मचर्यविद्यासुशिक्षाग्रहणादिषु शुभेषु कर्मसु स्वयं प्रवृत्ता भूत्वा यानन्यान् प्रवर्त्तयेयुस्तेऽत्र प्रवर्त्तित्वा परमेश्वरमारभ्य पृथिवीपर्य्यन्तानां पदार्थानां यथार्थेन विज्ञानेनोपयोगं संगृह्य सर्वेष्वृतुषु स्वयं सुखयन्त्वन्यांश्च॥७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे स्त्रि पुरुष वा यं त्वा त्वामिहाध्वर्यू अश्विना वैश्वानरायाग्नये सादयतां वयं च यं त्वा सादयेम स त्वमृतुभिः सह सजूर्विधाभिः सह सजूर्देवैस्सह सजूर्वयोनाधैर्देवैः सह सजूश्च भव। हे पुरुषार्थयुक्ते स्त्रि वा पुरुष! यं त्वा त्वामिह वैश्वानरायाग्नयेऽध्वर्यू अश्विना सादयतां यं त्वा वयं च सादयेम स त्वमृतुभिः सह सजूर्विधाभिः सह सजूर्वसुभिः सह सजूर्वयोनाधैर्देवैः सह च सजूर्भव। हे विद्याध्यायनाय प्रवृत्ते ब्रह्मचारिणि वा ब्रह्मचारिन्! यं त्वेह वैश्वानरायाग्नयेऽध्वर्यू अश्विना सादयतां यं त्वा वयं च सादयेम स त्वमृतुभिः सह सजूर्विधाभिः सह सजूः रुद्रैः सह सजूर्वयोनाधैर्देवैः सह च सजूर्भव। हे पूर्णविद्ये स्त्रि पुरुष वा यं त्वेह वैश्वानरायाग्नयेऽध्वर्यू अश्विना सादयतां यं त्वा वयं च सादयेम स त्वमृतुभिः सह सजूर्विधाभिः सह सजूरादित्यैः सह सजूर्वयोनाधैर्देवैः सह च सजूर्भव। हे सत्यार्थोपदेशिके स्त्रि पुरुष वा यं त्वेह वैश्वानरायाग्नयेऽध्वर्यू अश्विना सादयतां यं त्वा वयं च सादयेम स त्वमृतुभिः सह सजूर्विधाभिः सह सजूर्विश्वैर्देवैः सह सजूर्वयोनाधैर्देवैः सह च सजूर्भव॥७॥