Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 14 / Mantra 30

31 Mantra
14/30
Devata- जगदीश्वरो देवता Rishi- विश्वदेव ऋषिः Chhand- स्वराड् ब्राह्मी जगती, ब्राह्मी पङ्क्तिः Swara- निषादः, पञ्चमः
Mantra with Swara
न॒व॒द॒शभि॑रस्तुवत शूद्रा॒र्य्याव॑सृज्येतामहोरा॒त्रेऽ अधि॑पत्नीऽ आस्ता॒म्। एक॑विꣳशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त्। त्रयो॑विꣳशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासी॒त्। पञ्च॑विꣳशत्यास्तुवताऽऽर॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्। स॒प्तवि॑ꣳशत्यास्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रोऽ आ॑दि॒त्याऽ अ॑नु॒व्यायँ॒स्तऽ ए॒वाधि॑पतयऽ आसन्॥३०॥

न॒व॒द॒शभि॒रिति॑ नवऽद॒शभिः॑। अ॒स्तु॒व॒त॒। शू॒द्रा॒र्य्यौ। अ॒सृ॒ज्ये॒ता॒म्। अ॒हो॒रा॒त्र इत्य॑हो॒रा॒त्रे। अधि॑पत्नी॒ इत्यधि॑ऽपत्नी। आ॒स्ता॒म्। एक॑विꣳश॒त्येक॑ऽविꣳशत्या। अ॒स्तु॒व॒त॒। एक॑शफा॒ इत्येक॑ऽशफाः॒। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। वरु॑णः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। त्रयो॑विꣳश॒त्येति॒ त्रयः॑ऽविंशत्या। अ॒स्तु॒व॒त॒। क्षु॒द्राः। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। पू॒षा। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। पञ्च॑विꣳश॒त्येति॒ पञ्च॑ऽविꣳशत्या। अ॒स्तु॒व॒त॒। आ॒र॒ण्याः। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। वा॒युः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। स॒प्तविं॑ꣳश॒त्येति॑ स॒प्तऽविं॑ꣳशत्या। अ॒स्तु॒व॒त॒। द्यावा॑पृथि॒वी इति॑ द्यावा॑पृथि॒वी। वि। ऐ॒ता॒म्। वस॑वः। रु॒द्राः। आ॒दि॒त्याः। अ॒नु॒व्या᳖य॒न्नित्य॑नु॒ऽव्या᳖यन्। ते। ए॒व। अधि॑पतय॒ इत्यधि॑ऽपतयः। आ॒स॒न् ॥३० ॥

Mantra without Swara
नवदशभिरस्तुवत शूद्रार्यावसृज्येतामहोरात्रेऽअधिपत्नीऽआस्तामेकविँशत्यास्तुवतैकशफाः पशवोसृज्यन्त वरुणो धिपतिरासीत्त्रयोविँशत्यास्तुवत क्षुद्राः पशवोसृज्यन्त पूषाधिपतिरासीत्पञ्चविँशत्यास्तुवतारण्याः पशवोसृज्यन्त वायुरधिपतिरासीत्सप्तविँशत्यास्तुवत द्यावापृथिवी व्यैताँवसवो रुद्राऽआदित्याऽअनुव्यायँस्तऽएवाधिपतय आसन्नवविँशत्यास्तुवत ॥

नवदशभिरिति नवऽदशभिः। अस्तुवत। शूद्रार्य्यौ। असृज्येताम्। अहोरात्र इत्यहोरात्रे। अधिपत्नी इत्यधिऽपत्नी। आस्ताम्। एकविꣳशत्येकऽविꣳशत्या। अस्तुवत। एकशफा इत्येकऽशफाः। पशवः। असृज्यन्त। वरुणः। अधिपतिरित्यधिऽपतिः। आसीत्। त्रयोविꣳशत्येति त्रयःऽविंशत्या। अस्तुवत। क्षुद्राः। पशवः। असृज्यन्त। पूषा। अधिपतिरित्यधिऽपतिः। आसीत्। पञ्चविꣳशत्येति पञ्चऽविꣳशत्या। अस्तुवत। आरण्याः। पशवः। असृज्यन्त। वायुः। अधिपतिरित्यधिऽपतिः। आसीत्। सप्तविंꣳशत्येति सप्तऽविंꣳशत्या। अस्तुवत। द्यावापृथिवी इति द्यावापृथिवी । वि। एेताम्। वसवः। रुद्राः। आदित्याः। अनुव्यायन्नित्यनुऽव्यायन्। ते। एव। अधिपतय इत्यधिऽपतयः। आसन्॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नवदशभिः) दश प्राणाः पञ्च महाभूतानि मनोबुद्धिचित्ताहंकारैः (अस्तुवत) स्तुवन्तु (शूद्रार्यौ) शूद्रश्चार्य्यो द्विजश्च तौ (असृज्येताम्) (अहोरात्रे) (अधिपत्नी) अधिष्ठात्र्यौ (आस्ताम्) भवतः (एकविंशत्या) मनुष्याणामङ्गैः (अस्तुवत) (एकशफाः) अश्वादयः (पशवः) (असृज्यन्त) सृष्टाः (वरुणः) जलम् (अधिपतिः) (आसीत्) (त्रयोविंशत्या) पश्वङ्गैः (अस्तुवत) (क्षुद्राः) नकुलपर्यन्ताः (पशवः) (असृज्यन्त) (पूषा) पुष्टिकर्त्ता भूगोलः (अधिपतिः) (आसीत्) (पञ्चविंशत्या) क्षुद्रपश्ववयवैः (अस्तुवत) (आरण्याः) अरण्ये भवाः (पशवः) सिंहादयः (असृज्यन्त) (वायुः) (अधिपतिः) (आसीत्) (सप्तविंशत्या) आरण्यपशुगुणैः (अस्तुवत) (द्यावापृथिवी) (वि) विविधतया (ऐताम्) प्राप्नुतः (वसवः) अग्न्यादयोऽष्टौ (रुद्राः) प्राणादयः (आदित्याः) चैत्रादयो द्वादश मासाः प्रथममध्यमोत्तमा विद्वांसो वा (अनुव्यायन्) अनुकूलतयोत्पादिताः (ते) (एव) (अधिपतयः) (आसन्)। [अयं मन्त्रः शत॰८.४.३.१२-१६ व्याख्यातः]॥३०॥
Essence
हे मनुष्याः! येनार्याः शूद्रा दस्यवश्च मनुष्याः सृष्टा, येन स्थूलसूक्ष्मा प्राणिदेहा महद्ह्रस्वाः पशव एतेषां पालनसाधनानि च, यस्य सृष्टावल्पविद्याः समग्रविद्याश्च विद्वांसो भवन्ति, तमेव यूयमुपास्यं मन्यध्वम्॥३०॥
Subject
पुनः स कीदृश इत्याह॥
Anvaya
हे मनुष्याः! यूयं येनोत्पादिते अहोरात्रे अधिपत्नी आस्ताम्, येन शूद्रार्यावसृज्येतां तं नवदशभिरस्तुवत। येनोत्पादितो वरुणोऽधिपतिरासीद्येनैकशफाः पशवोऽसृज्यन्त तं परमात्मानमेकविंशत्यास्तुवत। येन निर्मितः पूषाऽधिपतिरासीद्, येन क्षुद्राः पशवोऽसृज्यन्त, तं त्रयोविंशत्यास्तुवत। येनोत्पादितो वायुरधिपतिरासीद् येनाऽऽरण्याः पशवोऽसृज्यन्त, तं पञ्चविंशत्यास्तुवत। येन सृष्टे द्यावापृथिव्यैताम्, येन रचिता वसवो रुद्रा आदित्या अनुव्यायंस्त एवाऽधिपतय आसंस्तं सप्तविंशत्यास्तुवत॥३०॥