Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 14 / Mantra 29

31 Mantra
14/29
Devata- ईश्वरो देवता Rishi- विश्वदेव ऋषिः Chhand- आर्षी त्रिष्टुप्, ब्रह्मी जगती Swara- धैवतः, निषादः
Mantra with Swara
न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीत्। एकाद॒शभि॑रस्तुवतऽ ऋ॒तवो॑ऽसृज्यन्तार्त्त॒वाऽ अधि॑पतयऽआसन्। त्रयोद॒शभि॑रस्तुवत॒ मासा॑ऽ असृज्यन्त संवत्स॒रोऽधि॑पतिरासीत्। पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीत्। सप्तद॒शभि॑रस्तुवत ग्रा॒म्याः प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीत्॥२९॥

न॒वभि॒रिति॑ न॒वऽभिः॑। अ॒स्तु॒व॒त॒। पि॒तरः॑। अ॒सृ॒ज्य॒न्त॒। अदि॑तिः। अधि॑प॒त्नीत्यधि॑ऽपत्नी। आ॒सी॒त्। ए॒का॒द॒शभि॒रित्ये॑काऽद॒शभिः॑। अ॒स्तु॒व॒त॒। ऋ॒तवः॑। अ॒सृ॒ज्य॒न्त॒। आ॒र्त्त॒वाः। अधि॑पतय॒ इत्यधि॑ऽपतयः। आ॒स॒न्। त्र॒यो॒द॒शभि॒रिति॑ त्रयोद॒शऽभिः॑। अ॒स्तु॒व॒त॒। मासाः॑। अ॒सृ॒ज्य॒न्त॒। सं॒व॒त्स॒रः। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त्। प॒ञ्च॒द॒शभि॒रिति॑ पञ्चऽद॒शभिः॑। अ॒स्तु॒व॒त॒। क्ष॒त्रम्। अ॒सृ॒ज्य॒त॒। इन्द्रः॑। अधि॑पति॒रित्यधि॑पतिः। आ॒सी॒त्। स॒प्त॒द॒शभि॒रिति॑ सप्तऽद॒शभिः॑। अ॒स्तु॒व॒त॒। ग्रा॒म्याः। प॒शवः॑। अ॒सृ॒ज्य॒न्त॒। बृह॒स्पतिः॑। अधि॑पति॒रित्यधि॑ऽपतिः। आ॒सी॒त् ॥२९ ॥

Mantra without Swara
नवभिरस्तुवत पितरोसृज्यन्तादितिरध्निपत्न्यासीदेकादशभिरस्तुवतऽऋतवोसृज्यन्तार्तवाऽअधिपतयऽआसँस्त्रयोदशभिरस्तुवत मासाऽअसृज्यन्त सँवत्सरोधिपतिरासीत्पञ्चदशभिरस्तुवत क्षत्रमसृज्यतेन्द्रोधिपतिरासीत्सप्तदशभिरस्तुवत ग्राम्याः पशवोसृज्यन्त बृहस्पतिरधिपतिरासीन्नवदशभिरस्तुवत ॥

नवभिरिति नवऽभिः। अस्तुवत। पितरः। असृज्यन्त। अदितिः। अधिपत्नीत्यधिऽपत्नी। आसीत्। एकादशभिरित्येकाऽदशभिः। अस्तुवत। ऋतवः। असृज्यन्त। आर्त्तवाः। अधिपतय इत्यधिऽपतयः। आसन्। त्रयोदशभिरिति त्रयोदशऽभिः। अस्तुवत। मासाः। असृज्यन्त। संवत्सरः। अधिपतिरित्यधिऽपतिः। आसीत्। पञ्चदशभिरिति पञ्चऽदशभिः। अस्तुवत। क्षत्रम्। असृज्यत। इन्द्रः। अधिपतिरित्यधिपतिः। आसीत्। सप्तदशभिरिति सप्तऽदशभिः। अस्तुवत। ग्राम्याः। पशवः। असृज्यन्त। बृहस्पतिः। अधिपतिरित्यधिऽपतिः। आसीत्॥२९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नवभिः) प्राणविशेषैः (अस्तुवत) प्रशंसन्तु (पितरः) पालका वर्षादयः (असृज्यन्त) उत्पादिताः (अदितिः) मातेव पालिका भूमिः (अधिपत्नी) अधिपतिसहिता (आसीत्) अस्ति (एकादशभिः) दश प्राणा एकादश आत्मा तैः (अस्तुवत) स्तुवन्तु (ऋतवः) वसन्तादयः (असृज्यन्त) सृष्टाः (आर्त्तवाः) ऋतुषु भवा गुणाः (अधिपतयः) (आसन्) भवन्ति (त्रयोदशभिः) दश प्राणा द्वे प्रतिष्ठे त्रयोदश आत्मा तैः (अस्तुवत) स्तुवन्तु (मासाः) चैत्राद्याः (असृज्यन्त) सृष्टाः (संवत्सरः) (अधिपतिः) अधिष्ठाता (आसीत्) अस्ति (पञ्चदशभिः) प्रतिपदादितिथिभिः (अस्तुवत) स्तुवन्तु संख्यायन्तु (क्षत्रम्) राज्यं क्षत्रियकुलं वा (असृज्यत) सृष्टम् (इन्द्रः) परमैश्वर्य्यहेतुः सूर्य्यः (अधिपतिः) अधिष्ठाता (आसीत्) (सप्तदशभिः) दश पाद्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदर्वाङ् नाभेस्तत्सप्तदशं तैः (अस्तुवत) स्तुवन्तु (ग्राम्याः) ग्रामे भवाः (पशवः) गवादयः (असृज्यन्त) (बृहस्पतिः) बृहतां पालको वैश्यः (अधिपतिः) अधिष्ठाता (आसीत्) अस्ति। [अयं मन्त्रः शत॰८.४.३.७-११ व्याख्यातः]॥२९॥
Essence
हे मनुष्याः! भवन्तो येन ऋत्वादयः प्रजापालका निर्मिताः पाल्याश्च, येन कालनिर्मापकाः सूर्य्यादयः सर्वे पदार्थाः सृष्टास्तं परमात्मानमुपासीरन्॥२९॥
Subject
पुनः स जगत्स्रष्टा किंभूत इत्याह॥
Anvaya
हे मनुष्याः! यूयं येन पितरोऽसृज्यन्त यत्राधिपत्न्यदितिरासीत् तं यूयं नवभिरस्तुवत। येनर्त्तवोऽसृज्यन्त, यत्रार्त्तवा अधिपतय आसंस्तमेकादशभिरस्तुवत। येन मासा असृज्यन्त, पञ्चदशभिः संवत्सरोऽधिपतिः सृष्ट आसीत् त्रयोदशभिरस्तुवत। यत्रेन्द्रोऽधिपतिरासीद्येन क्षत्रमसृज्यत, तं सप्तदशभिरस्तुवत। येन बृहस्पतिरधिपतिः सृष्ट आसीद्, ग्राम्याः पशवोऽसृज्यन्त तं परमेश्वरं सप्तदशभिरस्तुवत॥२९॥